|| गोपालयोगिकृता श्रीहरिस्तुतिः ||
महातेजःपुञ्जस्फुरदमलसिंहासनवरे
स्थितं सर्वाधीशं विमलतरतेजोमयतनुम् ।
भृशं धन्योऽहं त्वां दृशि समधिगम्याक्षर
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ १॥
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन बहुधा ।
ये सर्वं स्वस्मिन् हरति कलया यस्तु स प्रभुः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ २॥
असूनाम्यादौ यमनियममुख्यैः सुकरणै-
निरुध्येदं चित्तं हृदि विलयमानीय सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयोऽसौ स्वहृदये
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ३॥
पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमौ
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ४॥
जयन्तीन्द्राद्यास्ते दितिजनिचयान् यस्य बलतः
स्वतन्त्रो नो कश्चित् क्वचिदपि कृतौ यत्कृतिमृते ।
कवित्वादेर्वं परिहरति योऽसौ विजयिनः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ५॥
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स हरिः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ६॥
यदा धर्मग्लानिर्भवति जगतीक्षोभकरणी
तदा सर्वस्वामिन् प्रकटितवपुः सेतुधृगजः ।
सतां धाता चैवं निगमप्रमुखागीतगुणकः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ७॥
स्वयं प्रादुर्भूतः परमकृपयाद्यात्र वृषजो
घनश्यामो वर्णी मुनिजनसखो बन्धुरपि मे ।
सदा स्मरास्याब्जः शरणशरणो भ्रान्तिहरणः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे द्वितीयप्रवाहे
सप्तमे तरङ्गे गोपालयोगिकृता श्रीहरिस्तुतिः सम्पूर्णा ।
Found a Mistake or Error? Report it Now