गुह अष्टक स्तोत्र PDF हिन्दी
Download PDF of Guha Ashtakam Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
गुह अष्टक स्तोत्र हिन्दी Lyrics
|| गुह अष्टक स्तोत्र ||
शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं
ज्ञातृज्ञाननिरन्तर- लोकगुणातीतं गुरुणातीतम्।
वल्लीवत्सल- भृङ्गारण्यक- तारुण्यं वरकारुण्यं
सेनासारमुदारं प्रणमत देवेशं गुहमावेशम्।
विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं
भावाभावजगत्त्रय- रूपमथारूपं जितसारूपम्।
नानाभुवनसमाधेयं विनुताधेयं वरराधेयं
केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम्।
स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं
ज्योतिःस्तोमनिरन्तर- रम्यमहःसाम्यं मनसायाम्यम्।
मायाशृङ्खल- बन्धविहीनमनादीनं परमादीनं
शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम्।
व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं
ज्योतिश्चक्रसमर्पित- कायमनाकाय- व्ययमाकायम्।
भक्तत्राणनशक्त्या युक्तमनुद्युक्तं प्रणयासक्तं
सुब्रह्मण्यमरण्यं प्रणमत देवेशं गुहमावेशम्।
श्रीमत्सुन्दरकायं शिष्टजनासेव्यं सुजटासेव्यं
सेवातुष्टसमर्पित- सूत्रमहासत्रं निजषड्वक्त्रम् ।
प्रत्यर्त्थ्यानतपाद- सरोरुहमावाहं भवभीदाहं
नानायोनिमयोनिं प्रणमत देवेशं गुहमावेशम्।
मान्यं मुनिभिरमान्यं मञ्जुजटासर्पं जितकन्दर्पं
आकल्पामृततरल- तरङ्गमनासङ्गं सकलासङ्गम्।
भासा ह्यधरितभास्वन्तं भविकस्वान्तं जितभीस्वान्तं
कामं कामनिकामं प्रणमत देवेशं गुहमावेशम्।
शिष्टं शिवजनतुष्टं बुधहृदयाकृष्टं हृतपापिष्ठं
नादान्तद्युतिमेक- मनेकमनासङ्गं सकलासङ्गम्।
दानविनिर्जित- निर्जरदारुमहाभीरुं तिमिराभीरुं
कालाकालमकालं प्रणमत देवेशं गुहमावेशम्।
नित्यं नियमिहृदिस्थं सत्यमनागारं भुवनागारं
बन्धूकारुणललित- शरीरमुरोहारं महिमाहारम्।
कौमारीकरपीडित- पादपयोजातं दिवि भूजातं
कण्ठेकालमकालं प्रणमत देवेशं गुहमावेशम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगुह अष्टक स्तोत्र

READ
गुह अष्टक स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
