गुह मानस पूजा स्तोत्र PDF हिन्दी
Download PDF of Guha Manasa Puja Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
गुह मानस पूजा स्तोत्र हिन्दी Lyrics
|| गुह मानस पूजा स्तोत्र ||
गुकारो ह्याख्याति प्रबलमनिवार्यं किल तमो
हकारो हानिं च प्रथयतितरामेव जगति।
अतो मोहान्धत्वं शिथिलयति यन्नाम गुह
इत्यमुं देवं ध्यायाम्यभिलषितसन्धाननिपुणम्।
समाश्लिष्टं वल्ल्या समुपघटितं बाहुविटपैः
स्वमूलायातानां समुचितफलप्रापणचणम्।
स्वसेवानिष्ठानां सततमपि सौख्योपगमकं
सदा ध्यायाम्येनं कमपि तु गुहाख्यं विटपिनम्।
सुराणां सङ्घातैस्समुपगतैः सान्द्रकुतुकैः
समाराध्य स्वामिन् भज विहितमावाहनमिदम्।
समन्तात्सद्रत्नैः समुपहितसोपानसरणि-
स्फुरन्नानाशोभं रचितमपि सिंहासनमिदम्।
हृतं गङ्गातुङ्गाद्यखिलतटिनीभ्योऽतिविमलं
सुतीर्थं पाद्यार्थं तव निहितमङ्गीकुरु विभो।
तथा पुण्यैस्तीर्थैर्विहितमिदमर्घ्याचमनकं
दयार्द्रां दृष्टिं मे दिश दिश दयाब्धे हरसुत।
समन्तात्स्नानीयैः परिमलगुणोत्कर्षभरितैः
स्फुरन्माणिक्यादिप्रतिखचितसद्रत्नफलके।
समासीनं हि त्वां सुचिरमभिषञ्चन्नसुलभं
परानन्दं यास्याम्यनुपधिकृपाब्धे हरसुत।
सुवासोभिश्चाङ्गं तव किल समाच्छाद्य सपदि
प्रसाध्यांसे शुभ्रं विमलमुपवीतं नवगुणम्।
प्रभूतांस्ते गन्धान् गिरिशसुत सन्धाय निटिले
सुखासीनं हि त्वां ननु खलु दिदृक्षे चपलधीः।
किरीटानां षट्कं तव हि कलयन् षण्मुख शिर-
स्स्त्वथ ग्रीवायां ते समनुघटयन् हारलतिकाम्।
ललाटेष्वातन्वन् तिलकमथ ते कुण्डलगणं
समर्घं श्रोत्रेषु क्षणमपि दिदृक्षे भवसुत।
अमन्दैर्मन्दारद्रुमकुसुमसङ्घैः सुरभिलैः
समर्चन् सामोदं तव हि सुकुमाराङ्गमखिलम्।
समन्तात्सम्प्लावां तव वदनसौन्दर्यलहरीं
सदा स्मारं स्मारं सफलयितुमीशे जनिमिमाम्।
समाजिघ्र स्वामिन्नगरुयुतधूपं करुणया
जिघृक्षस्वापीमानमलघृतदीपानुपहृतान्।
गृहाणाज्यप्लावान् मृदुलतरभक्ष्याणि विविधा-
न्युपादत्स्वाप्यन्नं विविधमथ पञ्चामृतमपि।
सुकर्पूरस्वादुक्रमुकयुतमेलादिकलितं
सुताम्बूलं स्वामिन् सदयमुपगृह्णीष्व मृदुलम्।
ततस्ते कर्पूरैस्सुरभितरनीराजनविधिं
प्रकुर्वन्नाधास्ये तव शिरसि पुष्पाञ्जलिमपि।
करोमि स्वामिंस्ते निखिलमुपचारं प्रवणधीः
दयार्द्रास्ते दृष्टीर्विकिर गिरिजानन्दन मयि।
समन्तात्संसारव्यसनकलुषीभूतहृदयं
परित्रायस्वाशापरवशितमापन्नमपि माम्।
इमां चेतः पूजां शरवणभुवो यः किल पठेत्
सकृद्वाऽन्यैर्गीतं सपदि शृणुयाद्भक्तिभरितः।
न तं संसाराशा परवशयते नापि विषयाः
क्रमात्पुण्यात्माऽयं ननु भजति कैवल्यपदवीम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगुह मानस पूजा स्तोत्र

READ
गुह मानस पूजा स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
