|| श्रीगुरुभजनस्तोत्रम् ||
ध्यानम्
कर्णस्वर्णविलोलकुण्डलधराम् आपीनवक्षोरुहां
मुक्ताहारविभूषणां परिलसत्धम्मिलसम्मल्लिकाम् ।
लीलालोलित लोचनां शशिमुखीम् आबद्ध कांचीस्रजं
दीव्यन्तीं भुवनेश्वरीमनुदिनं वन्दामहे मातरम् ॥
ॐ श्रीगुरुभ्यो नमः ।
श्रीभवानीशङ्कराय नमः ।
कलाभिः कल्पिताशेष-भुवनानन्दभोजनम् ।
क्रीडन्तं त्रिपुरे नित्यं परसंविद्गुरुं भजे ॥ १॥
हर्याकारं हराकारं ह्रीङ्कारं वाम्बिकातनुम् ।
हृदयेऽद्वैतमात्मानं द्योतयन्तं गुरुं भजे ॥ २॥
शिवप्रियञ्च रुद्राक्षं गले भाले त्रिपुण्ड्र-कम् ।
करे संविन्मयीं मुद्रां धारयन्तं गुरुं भजे ॥ ३॥
काषायवसनोपेतं करुणार्द्रविलोचनम् ।
कामारिसेवनासक्तं कल्मषघ्नं गुरुं भजे ॥ ४॥
श्रितार्तिभेदनोद्युक्तं शर्मदं शमशोभितम् ।
श्रुत्यन्तवाक्यमनिशं श्रावयन्तं गुरुं भजे ॥ ५॥
संशयोच्छेदने दक्षं रक्षिताचार्यसन्ततिम् ।
स्वनाथ-करपाथोज-सञ्जातं सद्गुरुं भजे ॥ ६॥
दीक्षितं शिष्यमोक्षार्थे साक्षात्कृतमहत्पदम् ।
दक्षिणामुखदेवांशं ब्रह्मनिष्ठं गुरुं भजे ॥ ७॥
ग्रन्थिं भित्त्वा विनिर्यान्तं वर्षन्तं गगनेऽमृतम् ।
कोटिविद्युत्प्रतीकाशं शक्तिपुञ्जं गुरुं भजे ॥ ८॥
जनयित्वा निजानन्दे रक्षित्वा मां क्षणे क्षणे ।
पाययन्तं भक्तिरसं मातृभूतं गुरुं भजे ॥ ९॥
अनन्यभावनगम्यं अभयं ज्योतिरान्तरम् ।
इच्छाज्ञानक्रियामूलं आत्मरूपं गुरुं भजे ॥ १०॥
देशिकेश्वरपश्वादि-भेदशून्यं चिदम्बरम् ।
देशकालानवच्छिन्नं निर्विकल्पं गुरुं भजे ॥ ११॥
मज्जन्मजन्मसाफल्यमहो जातमयत्नतः ।
यदङ्घ्रिरेणुसंस्पर्शात् तमानन्दं गुरुं भजे ॥ १२॥
श्रीगुरुद्वादशात्मानं ध्यात्वा स्तोत्रमिमं पठेत् ।
साधकोत्तमः संविद्-दृष्टिसौष्ठवहेतवे ।
इति श्रीगुरुभजनस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now