|| श्रीगुरुगजाननाष्टकम् ||
ॐ श्री ।
श्रीशङ्कर ।
उद्धारणाय भवसागरतो नराणां
श्रीरामदासगुरुरागतवान्पुनश्च ।
तं पादनम्रमनुजार्तिहरं प्रसन्नं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ १॥
तीर्थेन यस्य पदयोर्भयदोषतापात्
संरक्षितश्च मरणोन्मुखजानरावः ।
तं पापपर्वतपविं भवरोगवैद्यं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ २॥
वापी जडान्तरनिभा मरुभूमिशुष्का
पूर्णा जलेन मधुना खलु यत्प्रसादात् ।
तं स्नेहशून्यहृदये जनितेशभक्तिं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ३॥
कृत्वा श्रुतेः पठनमागमशुद्धरीत्या
येनाञ्जसा द्रविडविप्रमदो निरस्तः ।
तं वेदवर्णित परात्मपदे वसन्तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ४॥
मञ्चे ज्वलत्यपि निधाय निजासनं यः
सिद्धं चकार भगवद्वचनं प्रमाणम् ।
तत्त्वावबोधबलनिर्जितपावकं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ५॥
उच्छृङ्खलाश्वचरणेषु सुखं शयित्वा
यो दुष्टभावदमनं कृतवांस्तदीयम् ।
भक्तस्य मत्तचलचित्तनियामकं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ६॥
यस्याज्ञया विनतभक्तजनस्य भिन्नां
पारम्निनाय तरणीं स्वयमेव रेवा ।
दासीकृतात्मबलसर्वचराचरं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ७॥
विज्ञापनाऽस्ति मम ते पदयोर्दयालो
पूजां च नैव भजनं स्तवनं न जाने ।
स्वीयेषु मां गणय पापमपाकुरुष्व
नो याचतेऽन्यदधुना गणुदासदासः ॥ ८॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीगुरुगजाननाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now