Misc

श्रीगुरुमहिम्नस्तोत्रम्

Gurumahimnastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगुरुमहिम्नस्तोत्रम् ||

(श्रीअमरप्रसादभट्टाचार्यविरचितम्)
नमः श्रीगुरवे नित्यं नमोऽस्तु गुरवे सदा ।
अज्ञानध्वान्तसम्मग्नं यो मामुद्धृतवान् मुदा ॥ १॥

श्री कृष्ण कृपया नूनं प्राप्तवानस्मि त्वां विभो ।
कृष्णरूपो भवान् ह्येतद् विस्मरेयं न जातुचित् ॥ २॥

देहि त्वच्चरण द्वन्द्वे भक्ति प्रेम्नोज्जितं सदा ।
तत्त्वज्ञानप्रदानेन चक्षुरुन्मीलितं कुरु ॥ ३॥

नास्ति पारो महिम्नस्ते नास्ति तुला तव क्वचित् ।
नास्ति सीमा गुरुत्वस्य त्वं नाम्ना कार्यतो गुरुः ॥ ४॥

येन सन्दर्शितं विष्णोः सर्वव्याप्तं परं पदम् ।
दग्ध्वा विद्यां परं ज्ञानं दत्तं येन नमोऽस्तुते ॥ ५॥

निम्बार्कसम्प्रदायो यः कृष्णोपासनतत्परः ।
सदा गुर्वैकनिष्ठः सन् राजते धरणीतले ॥ ६॥

रामदासो यतिश्रेष्ठ प्रादुवर्भुव तत्र तु ।
“काठिया”नामतः ख्यातो योगी ब्रह्मविदा वरः ॥ ७॥

परात्परः गुरुं त्वञ्च भवसंसारतारकम् ।
रामदासं सदा वन्दे भक्तया परमया मुदा ॥ ८॥

तच्छिष्यः सन्तदासो यस्त्यागी सत्य परायणः ।
गुरुसेवी गुरुप्रेमी सत्तमो ब्रह्मवित्तमः ॥ ९॥

शास्त्रग्रन्थप्रणेता च इष्ट विग्रहस्थापकः
तं नोमि सततं भक्तया सन्तदासं परं गुरुम् ॥ १०॥

सन्तदासस्य शिष्यो यः सन्तदासप्रियङ्करः ॥॥

“काठिया” नाम प्रख्यातो ह्यस्मिन् भारतमण्डले ॥ ११॥

तं धनञ्जयदासञ्च गुरुं वन्दे ह्यनिर्निशम् ।
शरणञ्च सदा यामि नित्यं गुर्वात्मदैवतः ॥ १२॥

ब्रह्मानन्दामृतास्वादी देहात्मबुद्धिवर्जितः ।
ईशार्पितमनःप्राणो योऽहं वोधविवर्जितः ॥ १३॥

यद्वपुदर्शनेनैव-तापशान्तिः प्रजायते ।
चित्तह्लादकरं तञ्च प्रणमामि सदागुरुम् ॥ १४॥

परमेशे सदा रक्तं यतिवरमनुत्तमम् ।
निश्चिन्तं परमानन्दं चित्तशान्ति प्रदायकम् ॥ १५
वासुदेवस्वरूपं तं जगन्मङ्गल विग्रहम् ।
आविर्भूत नराधारे गुरुं ब्रह्म नमाम्यहम् ॥ १६॥

जीवोद्धारव्रते युक्तो भगवच्छक्तिधारकः ।
जीवानुद्धरते यश्च करुणापूर्णमानसः ॥ १७॥

सदाप्रशान्तचित्तो यो वासुदेवपरायणः
तं नौमि सततं भक्तया परमानन्दसद्गुरुम् ॥ १८॥

सङ्गोपितात्मशक्तिर्यश्चरति लोकवत् सदा ।
तं गुरुं सततं वन्दे ममत्वबुद्धिर्वाजतम् ॥ १९॥

योद्वेष्टा सर्वभूतानां समदुःखसुखः क्षमी ।
समत्वयोगयुक्तं तं गुरुं वन्दे अहर्निशम् ॥ २०॥

शास्त्रानुशीलने निष्ठं सदाचारपरायणम् ।
श्रीधनञ्जयदासं प्रपद्येऽहं सदा गुरुम् ॥ २१॥

गुरुभक्तिसमायुक्तं गुरोः प्रियङ्करं सदा ।
धनञ्जय गुरुं वन्दे गुरुसेवापरायणम् ॥ २२॥

गुर्वानन्दसदानन्दं गुर्वर्थे सर्वचेष्टितम् ।
“गुरौ हुतामनः–प्राणं गुरुं” नौमि धनञ्जयम् ॥ २३॥

शास्त्रज्ञो मन्त्रविद्भक्तः शास्त्र व्याख्यान क विदः ।
शास्त्रप्रचारको यश्च निम्बार्कपथचारणः ॥ २४॥

निम्बार्कमतव्याख्याता द्वैताद्वैतप्रचारकः ।
(तं) धनञ्जयं गुरुं नोमि ज्ञाने भक्तौ प्रतिष्ठितम् ॥ २५॥

पूर्वाचार्यचरित्राणि योऽलिखत् सर्वमङ्गलः ।
प्राकाशयच्च यस्तानि जगत्कल्याणकाङ्क्षया ॥ २६॥

स्थापितवांश्च देशेषु दयाश्रमान् धर्मगुप्तये ।
सर्वहिते रतं तञ्च भजामि सततं गुरुम् ॥ २७॥

सिद्धान्तनिर्णये दक्षं शास्त्रानन्दं विमत्सरम् ।
श्रोत्रियं तं गुरुं नौमि अज्ञानतिमिरापहम् ॥ २८॥

येन प्रज्वलितो ज्ञानप्रदीपो हृदिकन्दरे ।
नाशिताः संशयाः सर्वे छेदितं भववन्धनम् ॥ २६॥

दर्शितमात्मरूपं तत जनिता भगवद्रतिः ।
महिम्नः स्तवने तस्य कः समर्थः कदा भवेत् ॥ ३०॥

हे गुरो ! महिमानस्ते सदा स्फुरन्तु में हृदि ।
भवतु विमला भक्तिस्तत्पादकमले मम ॥ ३१॥

क्षमाशीलः सदेव त्वं सततं भक्तवत्सलः ।
नित्यापराधशीलस्य अपराधान् क्षमस्व मे ॥ ३२॥

नास्ति मे योग्यता काचित्त्वमेव शरणं मम ।
अशरणशरण्यस्त्वं कृपां कुरु ममोपरि ॥ ३३॥

केशेषु मां गृहोत्वा त्वं संसारसागरान्नय
आनीय पादपद्मे ते स्थापय मां सदाऽच्युतम् ॥ ३४॥

नमोऽस्तु गुरवे तुभ्यं संसारार्णवतारक ।
संसारसागरे मग्नं मां समुद्धर हे गुरो ॥ ३५॥

न जातु विस्मरेयं त्वां न त्वं मां विस्मरेः क्वचित् ।
भवतान्मे परा भक्तिस्त्वयि जन्मनि जन्मति ॥ ३६॥

देहि मे प्रेमभक्ति त्वं कृपया स्वात्मसात् कुरु ॥

गुरो ! त्वच्चरणद्वन्द्वे भूयो भूयो नमाम्यहम् ॥ ३७॥

! ! जय श्रीराधे ! !

इति श्री अमरप्रसादभट्टाचार्यविरचितं
श्रीश्रीश्रीगुरुमहिम्नस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीगुरुमहिम्नस्तोत्रम् PDF

श्रीगुरुमहिम्नस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App