Misc

गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम्

Guruvaraprarthanapamcharatnastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम् ||

श्रीगणेशाय नमः ॥

यं विज्ञातुं भृगुः स्वापितरमुपगतः पञ्चवारं यथाव-
ज्ज्ञानादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्ध्वा ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्ता-
नन्ताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबन्धो ॥ १॥

यस्मान्नश्यस्य जन्मस्थितिविलयमिमे तैतिरीयाः पठन्ति
स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्ता-
नन्ताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबन्धो ॥ २॥

यो वेदान्तैकलक्ष्यः श्रुतिषु निवमितस्तैत्तिरीयैश्च
काण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कारभाजाम् ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्ता-
नन्ताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबन्धो ॥ ३॥

यस्मिन्नेवावसन्नाः सकलनिगमवाङ्मौलयः सुप्तपुंसि
प्रोक्त्तं तन्नाम यद्वन्निजमहिमगतध्वान्ततत्कार्यरूपे ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्ता-
नन्ताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबन्धो ॥ ४॥

चित्त्वात्सङ्कल्पपूर्वं सॄजति जगदिदं योगिवन्मायया यः
स्वात्मन्येवाद्वितीये परमसुखदॄशि स्वप्नवद्भूप्नि नित्ये ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्ता-
नन्ताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबन्धो ॥ ५॥

इत्यच्युतविरचितं गुरुवरप्रार्थनापञ्चरत्नस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम् PDF

गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App