|| हनुमदष्टाविंशतिनामस्तोत्रम् ||
ब्रह्मोवाच
सुन्दरं हनुमान्मन्त्रमिदमेव हरीश्वरा ।
ॐ हनुमान् अञ्जनासूनुः वायुपुत्रो महाबलः ।
कपीन्द्रो पिङ्गलाक्षश्च लङ्काद्वीपभयङ्करः ॥ १॥
प्रभञ्जनसुतो वीरस्सीताशोकविनाशकः ।
अक्षहन्ता रामसखा रामकार्यधुरन्धरः ॥ २॥
महौषधगिरेर्हारी वानरप्राणदायकः ।
वागीशतारकश्चैव मैनाकगिरिभञ्जनः ॥ ३॥
निरञ्जनो जितक्रोधो कदलीवनसंवृतः ।
ऊर्ध्वरेता महासत्त्वा सर्वमन्त्रप्रवर्तकः ॥ ४॥
महालिङ्गप्रतिष्ठाता भाष्यकृत् जपतांवरः ।
शिवध्यानपरोनित्यं शिवपूजापरायणः ॥ ५॥
इति हनुमदष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now