Download HinduNidhi App
Misc

श्री हरि शरणाष्टकम्

Harisharana Ashtakam Hindi

MiscAshtakam (अष्टकम निधि)हिन्दी
Share This

॥ श्री हरि शरणाष्टकम् ॥

ध्येयं वदन्ति शिवमेव हि केचिदन्ये
शक्तिं गणेशमपरे तु दिवाकरं वै।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात्त्वमेव शरणं मम दीनबन्धो॥

नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं बलं वा।
संदृष्यते न किल कोऽपि सहायको मे
तस्मात्त्वमेव शरणं मम दीनबन्धो॥

नोपासिता मदमपास्य मया महान्तस्तीर्थानि
चास्तिकधिया न हि सेवितानि।
देवार्चनं च विधिवन्न कृतं कदापि
तस्मात्त्वमेव शरणं मम दीनबन्धो॥

दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति।
सञ्जीवनं च परहस्तगतं सदैव
तस्मात्त्वमेव शरणं मम दीनबन्धो॥

पूर्वं कृतानि दुरितानि मया तु यानि
स्मृत्वाखिलानि ह्रदयं परिकम्पते मे।
ख्याता च ते पतितपावनता तु यस्मा
त्तस्मात्त्वमेव शरणं मम दीनबन्धो॥

दुःखं जराजननजं विविधाश्च रोगा:
काकश्वसूकरजनिर्निरय च पात:।
त्वद्विस्मॄतेः फलमिदं विततं हि लोके
तस्मात्त्वमेव शरणं मम दीनबन्धो॥

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात्तवाहमिति यस्तु किलैकवारम्।
तं यच्छसीश निजलोकमिति व्रतं ते
तस्मात्त्वमेव शरणं मम दीनबन्धो॥

वेदेषु धर्मवचनेषु तथागमेषु
रामायणेऽपि च पुराणकदम्बके वा।
सर्वत्र सर्वविधिना गदितस्त्वमेव
तस्मात्त्वमेव शरणं मम दीनबन्धो॥

॥ इति श्रीहरिशरणाष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री हरि शरणाष्टकम् PDF

श्री हरि शरणाष्टकम् PDF

Leave a Comment