|| श्रीहठीनारायणाचार्याष्टकम् ||
मुक्तिप्रदं सद्भक्तिं दत्त्वा रामपदाब्जयोः ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
सीतारामकथादक्षं रामतारकदीक्षकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
दर्शनान्नमताल्लोके पापिनां पापनाशकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
रामानन्दकृतानन्दभाष्यतत्त्वोपदेशकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
श्रीमद्वैष्णवधर्मस्य रक्षकं वर्धकं तथा ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
शिष्याणां पञ्चसंस्कारान् विधाय योग्यताकरम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
अद्वैतखण्डकं चाथ विशिष्टाद्वैतमण्डकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मन्त्रत्रयार्थविद्वांसं विद्द्वद्त्सिद्धैश्च सेवितम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीहठीनारायणाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now