॥ श्री हयग्रीव स्तोत्रम् ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
ज्ञानानन्द मयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्व विद्यानां हयग्रीवम् उपास्महे ॥ १ ॥
स्वतस्सिद्धं शुद्धस्फटिकमणि भूभृत्प्रतिभटं।
सुधा सध्रीचीभिर् धुतिभिर् अवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैर् अनुविहित हेषा हलहलं।
हताशेषावद्यं हयवदन मीडी महि महः ॥ २ ॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां।
लयः प्रत्यूहानां लहरि विततिर्बोधजलधेः ।
कथा दर्पक्षुभ्यत् कथककुल कोलाहलभवं।
हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३ ॥
प्राची सन्ध्या काचिदन्तर् निशायाः।
प्रज्ञादृष्टेरञ्जन श्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजि वक्त्रा।
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ ॥
विशुद्ध विज्ञान घन स्वरूपं।
विज्ञान विश्राणन बद्ध दीक्षम् ।
दयानिधिं देहभृतां शरण्यं।
देवं हयग्रीवम् अहं प्रपद्ये ॥ ५ ॥
अपौरुषेयैर् अपि वाक्प्रपञ्चैः।
अद्यापि ते भूति मदृष्ट पाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव।
कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥
दाक्षिण्य रम्या गिरिशस्य मूर्तिः।
देवी सरोजासन धर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्य वाचः।
स्फुरन्ति सर्वे तव शक्ति लेशैः ॥ ७ ॥
मन्दोऽभविष्यन् नियतं विरिञ्चो।
वाचां निधे वञ्चित भाग धेयः ।
दैत्यापनीतान् दययैव भूयोऽपि।
अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८ ॥
वितर्क डोलां व्यवधूय सत्वे।
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदशेश्वराणाम्।
अस्पृष्ट डोलायित माधिराज्यम् ॥ ९ ॥
अग्नोउ समिद्धार्चिषि सप्ततन्तोः।
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्ड सारैर् हविषां प्रदानैः।
आप्यायनं व्योम सदां विधत्से ॥ १० ॥
यन्मूलमीदृक् प्रतिभाति तत्वं।
या मूलमाम्नाय महाद्रुमाणाम् ।
तत्वेन जानन्ति विशुद्ध सत्वाः।
त्वाम् अक्षराम् अक्षर मातृकां ते ॥ ११ ॥
अव्याकृताद् व्याकृत वानसि त्वं।
नामानि रूपाणि च यानि पूर्वम् ।
शंसन्ति तेषां चरमां प्रतिष्टां।
वागीश्वर त्वां त्वदुपज्ञ वाचः ॥ १२ ॥
मुग्धेन्दु निष्यन्द विलोभ नीयां।
मूर्तिं तवानन्द सुधा प्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते।
वेला मुदारामिव दुग्ध सिन्धोः ॥ १३ ॥
मनोगतं पश्यति यः सदा त्वां।
मनीषिणां मानस राज हंसम् ।
स्वयं पुरोभाव विवादभाजः।
किंकुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥
अपि क्षणार्धं कलयन्ति ये त्वां।
आप्लावयन्तं विशदैर् मयूखैः ।
वाचां प्रवाहैर् अनिवारितैस्ते।
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥
स्वामिन् भवद्ध्यान सुधाभिषेकात्।
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढ मूलं।
अङ्गेष्विवानन्दथुम् अङ्कुरन्तम् ॥ १६ ॥
स्वामिन् प्रतीचा हृदयेन धन्याः।
त्वद्ध्यान चन्द्रोदय वर्धमानम् ।
अमान्त मानन्द पयोधिमन्तः।
पयोभिरक्ष्णां परिवाहयन्ति ॥ १७ ॥
स्वैरानुभावास् त्वदधीन भावाः।
समृद्ध वीर्यास् त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां।
वैहारिकीं मोहन पिञ्छिकां ते ॥ १८ ॥
प्राङ् निर्मितानां तपसां विपाकाः।
प्रत्यग्र निश्श्रेयस संपदो मे ।
समेधिषीरंस्तव पाद पद्मे।
संकल्प चिन्तामणयः प्रणामाः ॥ १९ ॥
विलुप्त मूर्धन्य लिपिक्र माणां।
सुरेन्द्र चूडापद लालितानाम् ।
त्वदंघ्रि राजीव रजः कणानां।
भूयान् प्रसादो मयि नाथ भूयात् ॥ २० ॥
परिस्फुरन् नूपुर चित्रभानु।
प्रकाश निर्धूत तमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन् महेऽन्तः।
प्रबोध राजीव विभात सन्ध्याम् ॥ २१ ॥
त्वत् किङ्करा लंकरणो चितानां।
त्वयैव कल्पान्तर पालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते।
मञ्जूषिकां वेद गिरां प्रतीमः ॥ २२ ॥
संचिन्तयामि प्रतिभाद शास्थान्।
संधुक्षयन्तं समय प्रदीपान् ।
विज्ञान कल्पद्रुम पल्लवाभं।
व्याख्यान मुद्रा मधुरं करं ते ॥ २३ ॥
चित्ते करोमि स्फुरिताक्षमालं।
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतो दञ्चन लम्पटानां।
लीला घटी यन्त्र मिवाश्रितानाम् ॥ २४ ॥
प्रबोध सिन्धोररुणैः प्रकाशैः।
प्रवाल सङ्घात मिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते।
वामं करं दक्षिणम् आश्रितानाम् ॥ २५ ॥
तमांसि भित्वा विशदैर्मयूखैः।
संप्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नव पुण्डरीके।
शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६ ॥
दिशन्तु मे देव सदा त्वदीयाः।
दया तरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुंसाम् अमृतं क्षरन्तीं।
सरस्वतीं संश्रित कामधेनुम् ॥ २७ ॥
विशेष वित्पारिष देषु नाथ।
विदग्ध गोष्ठी समराङ्गणेषु ।
जिगीषतो मे कवितार्कि केन्द्रान्।
जिह्वाग्र सिंहासनम् अभ्युपेयाः ॥ २८ ॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः।
त्वामुद्गृणन् शब्द मयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय।
स्वच्छन्द वादाहव बद्ध शूरः ॥ २९ ॥
नाना विधानामगतिः कलानां।
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथ परिग्रहायाः।
नवं नवं पात्रमहं दयायाः ॥ ३० ॥
अकम्पनीयान् यपनीति भेदैः।
अलंकृषीरन् हृदयं मदीयम् ।
शङ्का कलङ्का पगमोज्ज्वलानि।
तत्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥
व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्क चक्रे।
बिभ्रद् भिन्नस्फटिक रुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीर् अमृत विशदैर् अंशुभिः प्लावयन् मां।
आविर्भूया दनघ महिमा मानसे वाग धीशः ॥ ३२ ॥
वागर्थ सिद्धिहेतोः।
पठत हयग्रीव संस्तुतिं भक्त्या ।
कवितार्किक केसरिणा।
वेङ्कट नाथेन विरचिता मेताम् ॥ ३३ ॥
॥ इति श्रीहयग्रीवस्तोत्रं समाप्तम् ॥
Found a Mistake or Error? Report it Now