|| हृदयबोधनस्तोत्रम् ||
श्रीगणेशाय नमः ॥
हृदय सदा स्मर परमवितारं हैमवतीकमितारम् ।
विषयभ्रमणं विश्रमविधुरं व्यर्थं मास्म कृथास्त्वम् ।
आधिव्याधिशताकुलमनिभृतसुखलोभाहितविविधक्लेशम् ।
आयुश्चञ्चलकमलदलाञ्चलगतजलबिन्दुसदृशक्षेमम् ।
अशुचिनिकायेऽवश्यविनाशिनि काये बालिशममता काऽये
नियतापायी न चिरस्थायी भोगोऽप्यसुभगपर्यवसायी ॥ १॥
आन्तररिपुवशमशिवोदर्कं पीतवितर्कं विशसि वृथा त्वं
किं तव लब्धं तत्प्रेरणया सन्ततविषयभ्रान्त्येयत्या ।
सङ्कटसङ्घविदारणनिपुणे शङ्करचरणे किङ्करशरणे
सङ्घटय रतिं सङ्कलय धृतिं सफलय निभृतं जनिलाभं च ॥ २॥
सङ्कल्पैकसमुद्भावितजगदुत्पत्त्यादिभिरात्तविनोदे
यस्मिन्नेव महेश्वरशब्दः स्वार्थसमन्वयमजहज्जयति ।
अखिलांहोपहममितशुभावहमभयदुहन्तं स्मरदेहदहं
करुणामृतरसवरुणालयमयि हरिणाङ्कोज्ज्वलमौलिमुपास्व ॥ ३॥
त्रिजगदतीतं यन्महिमानं त्रय्यपि चकितैवाभिदधाति
प्रणमदमर्त्यप्रवरशिरोमणिदीधितिदीपितपादसरोजम् ।
भक्ताभ्यर्थितसार्थसमर्थनसामर्थ्योद्धृतकल्पककर्पं
कन्दर्पारिमृतेऽन्यः कोऽपि वदान्यो जगति न मान्यो जयति ॥ ४॥
इति हृदयबोधनस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now