|| इन्दुमौलिस्मरणस्तोत्रम् ||
श्रीगणेशाय नमः ॥
कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् ।
सततमलङ्कुर्वाण प्रणतावनदीक्ष यक्षराजसख ॥ १॥
कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप ।
कान्तारखेलनरुचे शान्तान्तःकरणं दीनमव शम्भो ॥ २॥
दाक्षायणीमनोम्ब्रुजभानो वीक्षावितीर्णविनतेष्ट ।
द्राक्षामधुरिममदभरशिक्षाकत्रीं प्रदेहि भम वाचम् ॥ ३॥
पारदसमानवर्णौ नीरदनीकाशदिव्यगलदेशः ।
पादनतदेवसङ्घः पशुमनिशं पातु मामीशः ॥ ४॥
भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे ।
चिरतरमिह वासं कुरु जगतीं रक्षन् प्रबोधनानेन ॥ ५॥
यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम् ।
वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥ ६॥
यमनियमनिरतलभ्यं शमदममुखषङ्कदानकृतदीक्षम् ।
रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥ ७॥
यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण ।
अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥ ८॥
येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् ।
तेन जितं जगदखिलं को न ब्रूते सुरार्यतुल्येन ॥ ९॥
इति इन्दुमौलिस्मरणस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now