|| ईश्वरस्तोत्रम् २ ||
अथ द्विषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
अथ नाथ प्रवक्ष्येऽहं काकिनीगुरुदेवयोः ।
मन्त्रोद्धारस्तव ज्ञानं येन सिद्धो भवेद् यतिः ॥ ६२-१॥
एतत्स्तवनपाठेन सहस्राख्यान्तसिद्धिषु ।
राजत्वं लभते सद्योऽथवा योगी च सम्पदि ॥ ६२-२॥
यथा जनकराजा च विषये गुरुभक्तिमान् ।
महासिद्धो महाज्ञानी तथा भवति साधकः ॥ ६२-३॥
सुरा नागा रुद्रगणाः सर्वे विद्यार्थसेवकाः ।
योगी ज्ञानी तथा सिद्धाः खेचरा यक्षराक्षसाः ॥ ६२-४॥
मुनयः क्रोधवेतालास्तथा चण्डेश्वरादयः ।
एतच्छुभस्तवेन्द्रेण स्तुत्वा सर्वत्र सिद्धिगाः ॥ ६२-५॥
पूर्णः पूर्णेन्दुबिम्बाननकमलकटाक्षादघौघापहारी
नारीन्धाता विधाता समवति न च तान् योगयोग्यान् महेन्द्रान् ।
सम्पत्तिप्राणयोगी निरवधिवरदानन्दगोप्ता शरीरो
बालो मृत्युञ्जयस्य प्रभुरिति भयहा पातु मे गुप्तदेहम् ॥ ६२-६॥
कामक्रोधापहन्ता जनयति भरतान् भारतान् पातु पृथ्वीं
यो योगी भावयोगी मम कुलफलदः सर्वदा शं करोतु ।
तत्क्रोडे लोकचक्रं तिलतुलतुलसेसन्निभं भाति सूक्ष्मं
तच्छ्रीनाथाङ्घ्रिपादद्वयमजरमहं भावये हृत्प्रपञ्चे ॥ ६२-७॥
मायां मोहे विवेकी शत-कितव-रिपूच्छेदकः प्रेरकस्थ-
कोर्षाणी गुप्ततन्द्रावनिभवमनुजो यो महामङ्गलस्थः ।
लोकातीतो तितीरो जय जय करुणानाथ दाता तपस्वी
मन्त्रोद्धारार्थगुप्तं समवति य इह प्राणनाथं तमीडे ॥ ६२-८॥
भावान्तो योऽतिगुर्वी हृदि जयकमलेऽतेऽमरप्रत्यथर्वो
वाग्देवी देवतायै नम इति मनुना मोहितो वाक्पतीशः ।
मन्त्रार्थोद्दीपनाख्यो विजयसखाकोटिभिर्वेष्टितो यो
बालार्कानन्दरश्मिप्रचयशतमखः पातु मां दुःखजालात् ॥ ६२-९॥
हृष्टाङ्गा सङ्गताङ्गाननविमलशिखाकोटिभिर्वर्जितो यो
मन्त्राच्चैतन्यहर्ता प्रणवमयशिवं तत्सदान्ते शिवं च ।
ध्यात्वा माहेश्वरायां नम इति जपनात् ते महेन्द्राधिपः स्यात्
कालीपुत्रः स एव त्वमभयवरदः सेव्यते यैः स मुक्तः ॥ ६२-१०॥
हंसः प्राणाविहन्ता त्वमखिलवरदस्त्वं निदानः प्रधानः
शान्तीशस्त्वं प्रतिष्ठः प्रणवशिवसदाभद्रमाहेश्वराय ।
अन्तेऽत्युच्चैर्नमोऽन्ते मनुमिह जपते सम्पदे दोषभङ्गा-
दानन्दाब्धौ त्वमीशो गुरुरिह चपलं चापलं मां प्रपाहि ॥ ६२-११॥
आनन्दोद्रेककारी त्वमपि सकरुणासागरो भक्तिदाता
दाता विद्याधरीणां त्वमपि सुररिपुः पार्वतीप्राणनाथः ।
तारे बिन्द्वाधराढ्यं क्षरमथविधुमत्तं मन्त्रमेकाक्षरं ते
तारान्तं त्र्यक्षरन्तं प्रजपति यदि यो योगिराड् भूतले स्यात् ॥ ६२-१२॥
सर्पाण्डस्थं सुसिद्धो हरविधुमधरं चन्द्रबिन्दुस्वरूपं
जप्त्वा नित्यं विलोमं प्रणवमृतिहरं वह्निकान्ता तदन्ते ।
एतद्रूपं पदं यो भजति वरगतं हेममञ्जीरनादं
मम्रेक्षानन्दचित्तं विजयवरकुलानन्ददः प्राणगं ते ॥ ६२-१३॥
उच्चाटे मोहने वाप्यरिवशसमये शान्तिपुष्ट्यान्तवश्ये
ते मन्त्रान् योजयित्वा जपति यदि सुधीः श्रीपदाब्जावलम्बी ।
सिध्येत् षट्कर्मसारं परमगुरुगतः स भवेत् कल्पशाखी
राजेन्द्रः सर्वलोके धनपतिसदृशः शम्भुनाथप्रसादात् ॥ ६२-१४॥
खान्तं शक्रादिरूढं विधुनयनयुतं कामबीजं त्रिशक्तिं
चाद्येऽन्ते ॐ शिवायानलवधुमिलितं यो जपेन्नाथमन्त्रम् ।
तेनाम्नायो जपित्वा कुलपथनिरतः साधकः श्रीवरेण्यः
किं तस्यासाध्यसिद्धिं त्रिजगति स सुखी सन्मुखी योगमार्गी ॥ ६२-१५॥
सर्वातीतो विहारी पदगतिरहितः सर्वगामी विरामी
हस्ताभावो विनेता निरवधिवरदः सर्वरूपी विरूपी ।
मन्त्रज्ञस्त्वं सुमन्त्री महमयसमयः संशयासारहन्ता
मन्ता विश्वेश्वरीणां परपशुपतयेऽन्ते नमः पातु नम्रम् ॥ ६२-१६॥
योगी भोगी विरागी त्वमतुलविभवः सम्भवः पञ्चचूडो
वाणी शेषः प्रियेशः शशिग्रथितमृडाशोभिताङ्गो ह्यनङ्गः ।
कामो माया रमेशः प्रथमदिनकरश्रेणि शोभावलिप्तः
सर्वाङ्गं यः प्रपायादमलकमलगः क्रोधगो योऽवलोकम् ॥ ६२-१७॥
एतच्छ्रीशङ्करस्तोत्रं यः पठेन्नियतः शुचिः ।
संवत्सराद् भवेत् सिद्धिः सर्वज्ञानप्रदायिनी ॥ ६२-१८॥
शुचौ वाप्यशुचौ स्तौति भक्त्या यः साधकोत्तमः ।
स सर्वयातनामुक्तो योगी ग्रन्थिविभेदकः ॥ ६२-१९॥
अकस्मात् सिद्धिमाप्नोति प्रेमानन्दसुभक्तिदाम् ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ॥ ६२-२०॥
न स्नानं न जपः कार्यं न पूजादिविधानकम् ।
केवलं स्तवपाठेनानाहते सुस्थिरो भवेत् ॥ ६२-२१॥
चिरञ्जीवी वीतरागो वीतसंसारभावनः ।
पठित्वा धारयित्वा च योगभ्रष्टो न सम्भवेत् ।
अनायासे योगसिद्धिं प्राप्नोति विपुलां श्रियम् ॥ ६२-२२॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे ईश्वरस्तोत्रविन्यासो नाम
द्विषष्टितमः पटलः ॥ ६२॥
Found a Mistake or Error? Report it Now