जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ PDF संस्कृत
Download PDF of Jaiminimunikrritamparvatistotram Sanskrit
Parvati Ji ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ संस्कृत Lyrics
|| जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ ||
जैमिनिरुवाच ।
नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै ।
समुद्बभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥ १३४॥
हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ १३५॥
नमामि मेनातनयाममेयामिमामुमां कान्तिमतीममेयाम् ।
करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥ १३६॥
कान्तामुमां कान्तनिभाङ्गकान्तिं भान्तामुपात्तानतहर्यजेन्द्राम् ।
नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि चष्टे ॥ १३७॥
वन्दे गौरीं तुङ्गपीनस्तनीं तां चन्द्राचूडां क्लिष्टसर्वाङ्गरागाम् ।
यैषा दुःखिप्राणिनामात्मकान्तिं देवीं देवीं राधसे चोदयन्तीम् ॥ १३८॥
एनां वन्दे दीनरक्षाविनोदां मेनाकन्यां मानदानन्ददात्रीम् ।
या विद्यानां मङ्गलानां च वाचामेषा नेत्री राधसः सूनृतानाम् ॥ १३९॥
संसारतापोरुभयापहन्त्री भवानि भोज्याभरणैकभोगे ।
धियं वरां देहि शिवे निरर्गलां ययाति विश्वा दुरिता तरेम ॥ १४०॥
शिवे कथं त्वत्समता क्व दीयते जगत्कृतिः केलिरयं शिवः पतिः ।
हरिस्तु दासोऽनुचरीन्दिरा शची सरस्वती वा सुभगाददिर्वसु ॥ १४१॥
इति नारदपुराणे उत्तरभागे त्रिसप्ततितमाध्यायान्तर्गतं
जैमिनिमुनिकृतं पार्वतीस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowजैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५
READ
जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
