|| जिनदेवदर्शनस्तोत्रम् ||
दर्शनं देवदेवस्य दर्शनं पापनाशनम् ।
दर्शनं स्वर्गसोपानं दर्शनं मोक्षसाधनम् ॥ १॥
दर्शनेन जिनेन्द्राणां साधूनां वन्दनेन च ।
न चिरं तिष्ठते पापं छिद्रहस्ते यथोदकम् ॥ २॥
वीतरागमुखं दॄष्ट्वा पद्मरागसमप्रभम् ।
जन्मजन्मकृतं पापं दर्शनेन विनश्यति ॥ ३॥
दर्शनं जिनसूर्यस्य संसार-ध्वान्त-नाशनम् ।
बोधनं चित्त-पद्मस्य समस्तार्थ-प्रकाशनम् ॥ ४॥
दर्शनं जिनचन्द्रस्य सद्धर्मामृत-वर्षणम् ।
जन्म-दाह-विनाशाय वर्धनं सुख-वारिधे ॥ ५॥
जीवादि-तत्त्वं प्रतिपादकाय सम्यक्त्व-मुख्याष्ट-गुणार्णवाय ।
प्रशान्त-रूपाय दिगम्बराय देवाधिदेवाय नमो जिनाय ॥ ६॥
चिदानन्दैक-रूपाय जिनाय परमात्मने ।
परमात्म-प्रकाशाय नित्यं सिद्धात्मने नमः ॥ ७॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य-भावेन रक्ष रक्ष जिनेश्वर ॥ ८॥
न हि त्राता न हि त्राता न हि त्राता जगत्त्रये ।
वीतरागात्परो देवो न भूतो न भविष्यति ॥ ९॥
जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने ।
सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ॥ १०॥
जिनधर्म-विनिर्मुक्तो मा भवेच्चक्रवर्त्यपि ।
स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासित ॥ ११॥
जन्म-जन्मकृतं पापं जन्म-कोटिमुपार्जितम् ।
जन्म-मृत्यु-जरा-रोगं हन्यते जिन-दर्शनात् ॥ १२॥
अद्याभवत्सफलता नयन-द्वयस्य
देव त्वदीय-चरणां-बुज-वीक्षणेन ।
अध्य् त्रिलोक-तिलकं प्रतिभासते मे
संसार-वारिधिरयं चुलुक-प्रमाणम् ॥ १३॥
इति जिनदेवदर्शनं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now