|| ज्ञानप्रसूनाम्बास्तोत्रम् ||
माणिक्याञ्चितभूषणां मणिवरां माहेन्द्रनीलोज्ज्वलां
मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् ।
मौलिस्तोमनुतां मराळगमनां माध्वीरसानन्दिनीं
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १॥
श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां
राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।
रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २॥
कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं
कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३॥
भावातीतमनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं
बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क्षेत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४॥
वीणागानविनोदिनीं विजयिनीं वेतण्डकुम्भस्तनीं
विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शङ्करीम् ।
विद्वेषिण्यभिरञ्जिनीं स्तुतिभवां वेदान्तवेद्यां शिवां
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५॥
नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं
काञ्चीचञ्चलघाटिकाकलरवां कञ्जातपत्रेक्षणाम् ।
कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६॥
मञ्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां
मन्दारद्रुममञ्जरीमधुझरीमाधुर्यखेलद्गिराम् ।
मातङ्गीं मदिरालसां करशुकां नीलालकालङ्कृतां
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७॥
कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां
अम्भोजासनवासवादिविनुतामर्धेन्दुभूषोज्ज्वलाम् ।
कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८॥
कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासोज्ज्वलां
गङ्गाऽऽवर्तसमाननाभिकुहरां गाङ्गेयभूषान्विताम् ।
चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां
ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९॥
बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां
नीलाकारसुकेशिनीं विलसितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां
ताम्बूलीं त्रिपुरां शिवसेनसहितां ध्यायामि मूकाम्बिकाम् ॥ १०॥
इति ज्ञानप्रसूनाम्बिकास्तोत्रं समाप्तम् ॥
Found a Mistake or Error? Report it Now