ज्वरकृतं श्रीकृष्णस्तोत्रम् PDF संस्कृत
Download PDF of Jvarakrritamshrikrrishnastotram Sanskrit
Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
ज्वरकृतं श्रीकृष्णस्तोत्रम् संस्कृत Lyrics
|| ज्वरकृतं श्रीकृष्णस्तोत्रम् ||
ज्वर उवाच ।
नमः कृष्णाय हरये विष्णवे प्रभविष्णवे ।
आदिदेवाय देवाय पुराणाय गदाभृते ॥ १॥
नमः सहस्रशिरसे सहस्रचरणाय च ।
सहस्राक्ष नमो नित्यं लोकानामभयंकर ॥ २॥
उद्गीथाय नमो देव यज्ञाधिपतये नमः ।
नमस्ते चक्रिणे नित्यमसिहस्ताय ते नमः ॥ ३॥
अनन्ताय विरूपाय नमस्ते मधुसूदन ।
नमस्ते देवदेवेश तुभ्यं देव कपर्दिने ॥ ४॥
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ।
ज्ञानज्ञेयाय देवाय नम आद्याय विष्णवे ॥ ५॥
नमस्ते नरसिंहाय दैत्यराजविहारिणे ।
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुंधर ॥ ६॥
त्रिविक्रम नमस्तुभ्यं बलियज्ञविनाशन ।
वासुदेवाय देवाय नमः कंसविनाशन ॥ ७॥
नमः सर्वात्मने देव सर्वकर्त्रे नमो नमः ।
प्रासीद देवदेवेश भीतानामभयंकर ॥ ८॥
नमामि देवदेवेशं वरेण्यमभयप्रदम् ।
विष्णो त्वां सकलेशेश त्वां गदाधरमव्ययम् ॥ ९॥
नमस्ते देवदेवेश भीतोऽहं भवनाशन ।
इति स्तुत्वा जगन्नाथं नृत्यन्निव तदा ज्वरः ॥ १०॥
पपात पादयोर्विष्णोर्निःश्वसन् भीतभीतवत् ।
प्रासीद विष्णो देवेश पीडितोऽस्मि जनार्दन ॥ ११॥
इति हरिवंशान्तर्गतं ज्वरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowज्वरकृतं श्रीकृष्णस्तोत्रम्
READ
ज्वरकृतं श्रीकृष्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
