कालियकृतं १ श्रीकृष्णस्तोत्रम् PDF संस्कृत
Download PDF of Kaliyakrritam1shrikrrishnastotram Sanskrit
Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
कालियकृतं १ श्रीकृष्णस्तोत्रम् संस्कृत Lyrics
|| कालियकृतं १ श्रीकृष्णस्तोत्रम् ||
व्यास उवाच ।
इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ४३॥
कालीय उवाच ।
तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ ४४॥
त्वं परस्त्वं परस्याऽऽद्यः परं त्वं तत्परात्मकम् ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ ४५॥
यथाऽहं भवता सृष्टो जात्या रूपेण चेश्वरः ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ ४६॥
यद्यन्यथा प्रवर्तेय देवदेव ततो मयि ।
न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ ४७॥
तथाऽपि यं जगत्स्वामी दण्डं पातितवान्मयि ।
स सोढोऽयं वरो दण्डस्त्वत्तो नान्योऽस्तु मे वरः ॥ ४८॥
हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ४९॥
इति ब्रह्मपुराणे पञ्चाशीत्यधिकशततमाध्यायान्तर्गतं
कालियकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकालियकृतं १ श्रीकृष्णस्तोत्रम्
READ
कालियकृतं १ श्रीकृष्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
