Download HinduNidhi App
Misc

कल्कि स्तोत्र

Kalki Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| कल्कि स्तोत्र ||

जय हरेऽमराधीशसेवितं तव पदाम्बुजं भूरिभूषणम्।

कुरु ममाग्रतः साधुसत्कृतं त्यज महामते मोहमात्मनः।

तव वपुर्जगद्रूपसम्पदा विरचितं सतां मानसे स्थितम्।

रतिपतेर्मनो मोहदायकं कुरु विचेष्टितं कामलम्पटम्।

तव यशोजगच्छोकनाशकं मृदुकथामृतं प्रीतिदायकम्।

स्मितसुधोक्षितं चन्द्रवन्मुखं तव करोत्यलं लोकमङ्गलम्।

मम पतिस्त्वयं सर्वदुर्जयो यदि तवाप्रियं कर्मणाऽऽचरेत्।

जहि तदात्मनः शत्रुमुद्यतं कुरु कृपां न चेदीदृगीश्वरः।

महदहंयुतं पञ्चमात्रया प्रकृतिजायया निर्मितं वपुः।

तव निरीक्षणाल्लीलया जगत्स्थितिलयोदयं ब्रह्मकल्पितम्।

भूवियन्मरुद्वारितेजसां राशिभिः शरीरेन्द्रियाश्रितैः।

त्रिगुणया स्वया मायया विभो कुरु कृपां भवत्सेवनार्थिनाम्।

तव गुणालयं नाम पावनं कलिमलापहं कीर्तयन्ति ये।

भवभयक्षयं तापतापिता मुहुरहो जनाः संसरन्ति नो।

तव जनुः सतां मानवर्धनं जिनकुलक्षयं देवपालकम्।

कृतयुगार्पकं धर्मपूरकं कलिकुलान्तकं शं तनोतु मे।

मम गृहं सदा पुत्रनप्तृकं गजरथैर्ध्वजैश्चामरैर्धनैः।

मणिवरासनं सत्कृतिं विना तव पदाब्जयोः शोभयन्ति किम्।

तव जगद्वपुः सुन्दरस्मितं मुखमनिन्दितं सुन्दरत्विषम्।

यदि न मे प्रियं वल्गुचेष्टितं परिकरोत्यहो मृत्युरस्त्विह।

हयवर भयहर करहरशरण- खरतरवरशर दशबलदमन।

जय हतपरभर- भववरनाशन शशधर शतसमर- सभरमदन।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
कल्कि स्तोत्र PDF

Download कल्कि स्तोत्र PDF

कल्कि स्तोत्र PDF

Leave a Comment