विष्णुलहरी (करुणालहरी) PDF संस्कृत
Download PDF of Karunalahari
Shri Vishnu ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
विष्णुलहरी (करुणालहरी) संस्कृत Lyrics
|| विष्णुलहरी (करुणालहरी) ||
विषीदता नाथ विषानलोपमे विषादभूमौ भवसागरे विभो ।
परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १॥
भवानलज्वालविलुप्तचेतनः शरण्य तेऽङ्घ्रिं शरणं भयादयाम् ।
विभाव्य भूयोऽपि दयासुधाम्बुजे विधेहि मे माथ यथा यथेच्छसि ॥ २॥
विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे विगाढुमीश त्वयि गाढमीहते ॥ ३॥
त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४॥
जगत्त्रयत्राणविधौ धृतद्धतं तवाङ्घ्रिराजीवमपास्य ये जनाः ।
शरण्यमन्यभ्युगयन्ति यान्ति ते नितान्तमीशान कृतान्तदेहलीम् ॥ ५॥
रमामुखाम्भोजविकासनक्षमो जगत्त्रयोद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे हारिष्यति त्वन्नयनारुणोदयः ॥ ६॥
सुरासुरस्वान्तचकोरचुम्बिता समस्तसन्तापचयापनोदिनी ।
महानिशीथे मम मानसे कदा स्फुरिष्यति त्त्वन्मुखचन्द्रचन्द्रिका ॥ ७॥
सुयौवनापाण्डुरगण्डमण्डलप्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं कदा मदक्ष्णोरतिथीभविमयति ॥ ८॥
सुरापगातुङ्गतरङ्गचालितां सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयाभृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥ ९॥
महाजवाश्छिन्नावेवेकरश्मयो मदोद्धता देव मदक्षवाजिनः ।
हरे समासाद्य तवाङ्घ्रिमन्दुरामपास्तवेगां दधतां सुशीलताम् ॥ १०॥
पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती सती मतिर्मे कथमन्यमेष्यति ॥ ११॥
न जाग्रता स्वप्रगतेन वा मया समीहितं ते करुणालवादृते ।
गिरम्मदीयां यदि वेत्सि तात्त्विकीं तदा जगन्नायक मामुरीकुरु ॥ १२॥
अयि दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥ १३॥
सुमहन्ति जगन्ति बिभ्रतस्तव यो नाविरभून्मनागपि ।
स कथं परमाप्तदेहिनां परमाणोमर्म वारणे श्रमः ॥ १४॥
नितरां विनयेन पृच्छते सुविचार्योत्तरमत्र यच्छ मे ।
करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्य माम् ॥ १५॥
न धनं न च राज्यसम्पदो न हि विद्यामिदमेकमर्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥ १६॥
अयमत्यधमोऽपि निर्गुणो दयनीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयिता हि चन्दनः ॥ १७॥
क्षुधितस्य न हि त्रपास्ति मे प्रतिरथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्कयशस्करं न ते भवदीयोऽपि यदन्यमृच्छति ॥ १८॥
नितरां नरकेऽपि सीदतः किमु हीनं गलितत्रपस्य मे ।
भगवन्कुरु सूक्ष्ममीक्षणं परतस्त्वां जनता किमालपेत् ॥ १९॥
नरके निजकर्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥ २०॥
मृगदन्तिमुखान्मया सह प्रतिरुद्धान् भवजालबन्धने ।
तव मामपहाय मुञ्चतः करुणा किं न भिनत्ति मानसम् ॥ २१॥
निरुपाधिजनार्तिहारिणं भगवंस्त्वामवगत्य तत्त्वतः ।
कृतपुण्यचयावहेलनं कथमब्जेक्षण मामुपेक्षसे ॥ २२॥
सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
पुरु पापमुपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥ २३॥
सुकृतं न कृतं पुरा कदाप्यथ सर्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति कि निगद्यताम् ॥ २४॥
मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न लज्जसे ॥ २५॥
अयि गर्तमुखे गतः शिशुः पथिकेनापि निवार्यते जवात् ।
जनकेन पतन्भवार्णवे न । निवार्यो भवता कथं विभो ॥ २६॥
सुकृतप्रिय माऽन्यथास्तु ते सुकृतिभ्यः सुखदस्य सुप्रथा ।
अपि पापमबिभ्रतस्तु मां तव विश्वम्भरनाम दुर्लभम् ॥ २७॥
वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोऽसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्धे जगतोऽपसारय ॥ २८॥
यदि वीक्ष्य ददासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत् ॥ २९॥
पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥ ३०॥
सुकृतप्रकृता जने त्वया कृतया किं कृपया कृपानिधे ।
यदि मादृशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१॥
अयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताड्यते ।
न कदापि च लालितस्त्वया किमु ताड्यो भगवन्कुकर्मभिः ॥ ३२॥
अहमेव हि दोषदूषितो भगवंस्त्वां समुपालभे मुधा ।
रमणीविरहज्वरज्वलन्नमृतांशुं कुमतिर्विनिन्दति ॥ ३३॥
करुणाकर दुर्दशाकुलं पतितालम्बन पापपञ्जरम् ।
अमृताम्बुनिधे महाज्वरं न हि जह्या जगदीश जातु माम् ॥ ३४॥
कटुजल्पनमल्पकस्य मे न हि ते कल्पयतु क्रुधं विभो ।
कुपितातुरबालभाषितं किमु गृह्णन्ति मनाङ्महाशयाः ॥ ३५॥
भुजगाहितकल्पितध्वजं स्पुरदाशाभुजगालिवेल्लितम् ।
जटिलज्वरकुञ्जराङ्कुशज्वरजुष्टं न जहीहि जातु माम् ॥ ३६॥
न वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे शृणु ।
मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम् ॥ ३७॥
अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः ।
तमुपालभमानमुद्धतं धिगिमं मां धिगिमां धियं मम ॥ ३८॥
अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्न हि किञ्चिदर्थये ।
मम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९॥
हरिनीलमयावनीतले वरवृन्दाविपिने विलासिनि ।
मणिमण्डपमध्यविस्फुरद्विबुधक्ष्मारुहमूलमाश्रितम् ॥ ४०॥
शिखिपिच्छमहामणिस्फुरन्मुकुटाकुञ्चितकान्तकुन्तलम् ।
कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥ ४१॥
शरदिन्दुसहोदराननं दलदम्भोजपलाशलोचनम् ।
अरुणाधरकान्तिदन्तुरस्फुटदन्तांशुविकासिताम्बरम् ॥ ४२॥
दरपाण्डुरगण्डमण्डलप्रतिसर्पत्कमनीयकुण्डलम् ।
मणिमौक्तिकमञ्जुमञ्जरीमहनीयद्युतिरञ्जितश्रुति ॥ ४३॥
पृथुवर्तुलमौक्तिस्कावलीसुषमावेल्लितकान्तकन्धरम् ।
हरिनीलगिरिद्युतिद्रुहा कमलामन्दिरवक्षसाञ्चितम् ॥ ४४॥
चरणाब्जनखावलम्बिनीं भुजगाकारभुजान्तरागताम् ।
निबिडाभ्रमिव क्षणप्रभां वृहदुत्फुल्लवनामलस्रजम् ॥ ४५॥
मणिकङ्कणकान्तिमांसलं दरफुल्लाम्बुजसुन्दरद्युति ।
पतितोद्धरणे दृढवतं कमनीयं करयोर्युगं दधत् ॥ ४६॥
वररत्नमयाङ्गुलीयकावलिशोभामिलिताङ्गुलीगणैः ।
मुहुराकुलितेन वेणुना वशयत्प्राणभृतां मनःश्रुतीः ॥ ४७॥
उदरद्युतिनिम्नगोच्छलल्लहरीरूपकरोमराजिकम् ।
पशुपालविलासिनीलसन्नयनाकर्षणनाभिनिम्नितम् ॥ ४८॥
कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् ।
उदयन्मणिनूपुरप्रभासरणिश्रेणिजटालजानुकम् ॥ ४९॥
अरिगीर्णगजेन्द्रगोपने दधता जाङ्घिकतामलौकिकीम् ।
त्रिजगन्महनीयमूर्तिना वरजङ्घायुगलेन शोभितम् ॥ ५०॥
कुलिशाङ्कुशकम्बुसाम्बुजध्वचक्राद्यभिरामलक्ष्मणा ।
अरुणारुणकोमलत्विषा कमनीयेन तलेन राजितम् ॥ ५१॥
विधिशर्वमुखामरस्फुरन्मुकुटोन्निद्रमणिप्रभाकुलम् ।
नखचन्द्रमयूखमूर्च्छिताखिलतापं पदयोर्युगं दधत् ॥ ५२॥
सरतः सरणौ सतो बहिः स्वपतो वाऽऽलपतो गृहान्तरे ।
वपुरीदृशमीश तावकं हृदयालम्बनमस्तु मे सदा ॥ ५३॥
नवनीरदनीलिमद्युतिर्नमनीयो निगमैर्निरन्तरम् ।
निरये निपतन्तमाशु मां नयनेनापि सनाथयेद्विभुः ॥ ५४॥
प्रणिपत्य हरे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे ।
जनिरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभावः ।
वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदाः
तां स्वप्नेऽपि न संस्मराम्यहमहम्भावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मा बिभ्रतः
त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ।
पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परां तर तथाप्याशा न शान्ता तव ।
आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ।
वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्ध्यौषधं
मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः ।
क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्धयम् ॥ ५८॥
विशालविषयाटवीवलयलग्नदावानल
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुरवचन्दिरे चिरमिदं चकोरायताम् ॥ ५९॥
सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयोः
विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्याञ्चन नवनभस्याम्बुदरुचि ॥ ६०॥
इति श्रीजगन्नाथपण्डितकृता करुणालहरी समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविष्णुलहरी (करुणालहरी)
READ
विष्णुलहरी (करुणालहरी)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
