Misc

श्रीकाशीविश्वेश्वरादिस्तोत्रम्

Kashivishveshvaradistotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकाशीविश्वेश्वरादिस्तोत्रम् ||

श्रीगणेशाय नमः ॥

नमः श्रीविश्वनाथाय देववन्द्यपदाय ते ।
काशीशेशावतारे मे देवदेव ह्युपादिश ॥ १॥

मायाधीशं महात्मानं सर्वकारणकारणम् ।
वन्दे तं माधवं देवं यः काशीं चाधितिष्ठति ॥ २॥

वन्दे तं धर्मगोप्तारं सर्वगुह्यार्थवेदिनम् ।
गणदेवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम् ॥ ३॥

भारं वोढुं स्वभक्तानां यो योगं प्राप्त उत्तमम् ।
तं सढुण्ढिं दण्डपाणिं वन्दे गङ्गातटस्थितम् ॥ ४॥

भैरवं दंष्ट्राकरालं भक्ताभयकरं भजे ।
दुष्टदण्डशूलशीर्षधरं वामाध्वचारिणम् ॥ ५॥

श्रीकाशीं पापशमनीं दमनीं दुष्टचेतसः ।
स्वनिःश्रेणिं चाविमुक्तपुरीं मर्त्यहितां भजे ॥ ६॥

नमामि चतुराराध्यां सदाऽणिम्नि स्थितिं गुहाम् ।
श्रीगङ्गे भैरवीं दूरीकुरु कल्याणि यातनाम् ॥ ७॥

भवानि रक्षान्नपूर्णे सद्वर्णितगुणेऽम्बिके ।
देवर्षिवन्द्याम्बुमणिकर्णिकां मोक्षदां भजे ॥ ८॥

इति काशीविश्वेश्वरादिस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीकाशीविश्वेश्वरादिस्तोत्रम् PDF

श्रीकाशीविश्वेश्वरादिस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App