Durga Ji

ऋषिकृता कात्यायनीस्तुतिः

Katyayanistutih Rrishikrrita Sanskrit

Durga JiStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

कात्यायनी स्तुति देवी दुर्गा के छठे स्वरूप की स्तुति है, जिसे श्रद्धा और भक्ति से गाया जाता है। इस स्तुति का पाठ करने से साधक को विवाह, संतान सुख और जीवन में हर प्रकार की सफलता की प्राप्ति होती है। कात्यायनी माता की स्तुति करने से मनोवांछित फल मिलता है और नारी जाति को विशेष रूप से सौभाग्य एवं समृद्धि का आशीर्वाद प्राप्त होता है। श्रद्धालु प्रातःकाल स्नान कर पीले वस्त्र धारण कर, दीपक और पुष्प अर्पित कर स्तुति का पाठ करें। यह स्तुति साधक के मन को पवित्र करती है और जीवन में सकारात्मक ऊर्जा भर देती है।

|| कात्यायनीस्तुति (Katyayani Stuti PDF) ||

नमस्कार ध्यान ।
चन्द्रहासोज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्याद् देवि दानव घातिनी ॥

कात्यायनी गायत्री –
ॐ कात्यायनाय विद्महे कन्यकुमारी धीमहि तन्नो दुर्गेः प्रचोदयात् ।

कात्यायनी ध्यानम् ।
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्याद् देवी दानवघातिनी ॥

देवि प्रपन्नार्तिहरे प्रसीद, प्रसीद। मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥

॥ कात्यायनीस्तुतिः ऋषिकृता ॥

(महाकाल संहितायाम्)
जगदम्ब जयानन्ते सर्वेकसाक्षिणि ।
सङ्कटोद्धारिणि शिवे भक्तानामभयङ्करे ॥

समस्त जगताधारभूते ब्रह्मस्वरूपिणि ।
विधीश हरि शक्रादि देवा विदित वैभवे ॥

सृष्टि स्थिति प्रलयकृत् त्रिगुणात्मक विग्रहे ।
परापरेशि प्रणतमनुज-प्राणदायिनि ॥

मदुपास्यतया ख्यातनाम्नि त्रिभुवनेश्वरि ।
कात्यायनि जगद्वन्द्ये महाकालि नमोस्तुते ॥

मत्प्राणरक्षणकृते भीनाशय दिवौकसाम् ।
स्वरूपं दर्शयामुष्मै विल्ववृक्षाद् विनिःसृता ॥

दशभुजा कात्यायनी ध्यानम् ।
जटाजूटसमायुक्तामर्धेन्दुकृत लक्षणाम् ।
नेत्रत्रयसमायुक्तां पद्मेन्दुसदृशाननाम् ॥

अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवन सम्पन्नां सर्वाभरणभूषिताम् ॥

सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थान संस्थानां महिषासुरमर्दिनीम् ॥

त्रिशूलं दक्षिणे दद्यात् खड्गं चक्रं क्रमादधः ।
तीक्ष्णं बाणं तथा शक्तिं वामतोऽपि निबोधत ॥

खेटकं पूर्णचापं च पाशमङ्कुश मूर्ध्वतः ।
घण्टां वा परशुं चापि वामतः सन्निवेशयेत् ॥

अधस्तान्महिषं तद्वधि शिरस्कं प्रदर्शयेत् ।
शिरश्चेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ॥

॥ षोडशभुजा दुर्गा ध्यानम् ॥

क्षीरोदस्योत्तरे तीरे विभ्रती विपुलां तनुम् ।
अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डलाम् ॥

जटाजूटमखण्डेन्दुमुकुटत्रय भूषिता ।
नागहारेण सहिता स्वर्णहार विभूषिता ॥

शूलं खड्गं च शङ्ख च चक्रं बाणं तथैव च ।
शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः ॥

विभ्रती सततं देवी विकाशिनयनोज्ज्वला ।
खेटकं चर्म चापं च पाशञ्चाङ्कुशमेव च ॥

घण्टां परशुं मुशलं विभ्रतो वामपाणिभिः ।
सिंहस्था नयनै रक्तवर्णैस्त्रिभिरभिज्ज्वला ॥

शूलेन महिषं भित्त्वा तिष्ठती परमेश्वरी ।
वामपादेन चाक्रम्य तत्र देवी जगन्मयी ॥

अष्टादशभुजा दुर्गा ध्यानम् ।
अष्टादशभुजा दुर्गा उग्रचण्ड स्वरूपा है ।
कल्पभेद महिषासुरमर्दिनि का महालक्ष्मी स्वरूपा भेद भी यही है ।

ध्यानम् ।
अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुःकुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ॥। १॥

शूलं पाश सुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥ २॥

अन्यच्च ।
ततो ध्यायेन्महालक्ष्मी महिषासुरमर्दिनीम् ।
समस्तदेवता तेजोजातां पद्मासन स्थिताम् ॥

अष्टादशभुजामक्षमालां पद्मं च शायकान् ।
खड्गं वज्रं गदां चक्रं दक्षहस्ते कमण्डलुम् ॥

खड्गं च दधतीं वामे शक्तिं च परशुं धनुः ।
चर्मदण्डौ सुरापात्रं घण्टां पाशं त्रिशूलकम् ॥

अष्टादशभुजा ध्यानम् ।
धम्मिल्लसंयतकचा विधोश्चाधोमुखीं कलाम् ।
केशान्ते तिलकस्योद्धे दधती सुमनोहरा ॥

मणिकुण्डल सन्धृष्टगण्डा मुकुटमण्डिता ।
सज्ज्योतिः कर्णपूराभ्यां कर्णावापूर्य सङ्गता ॥

ससुवर्णमणिमाणिक्य नागहार विराजिता ।
सदासुधिभिः पद्मैरम्लानैरति सुन्दरी ॥

मालां विभर्ति ग्रीवायां रत्नकेयूरधारिणी ।
मृणालायत वृत्तैस्तु बाहुभिः कोमलै शुभैः ॥

राजन्ती कञ्जुकोपेता पीनोन्नत पयोधरा ।
क्षीणमध्या पीतवस्त्रा त्रिवलोमध्यभूषिता ॥

अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम् ।
आदर्शं तर्जनीं चाप ध्वजं डमरुकं चर्मं च ॥

पाशं वामे विभ्रती च शक्ति मुद्गर शूलकम् ।
वज्र खड्गाङ्कुश शरांश्चक्रं देवी शलाकया ॥

सिंहोस्योपरि तिष्ठन्ती व्याघ्रचर्मणि कौशिकी ।
विभ्रती रूपममतुलं ससुरासुर मोहनम् ॥

अक्षमाला च कमलं वाणोऽसि कुलिशं गदा ।
चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ॥

शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः ।
अलङ्कृतभुजामेभिरायुधैः कमलासनम् ॥

इति कात्यायनीऋषिकृता कात्यायनीस्तुतिः समाप्ता ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download ऋषिकृता कात्यायनीस्तुतिः PDF

ऋषिकृता कात्यायनीस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App