केदारनाथ कवच PDF हिन्दी
Download PDF of Kedarnath Kavach Hindi
Misc ✦ Kavach (कवच संग्रह) ✦ हिन्दी
केदारनाथ कवच हिन्दी Lyrics
|| केदारनाथ कवच ||
केयूरादिविभूषितैः करतलैरत्नाङ्कितैः सुन्दरं
नानाहारविचित्रपन्नगयुतैर्हेमाम्बरैर्मण्डितम्।
हस्ताभ्यां धृतखड्गपात्रडमरूशूलं सदा बिभ्रतं
वाजीवाहनदैत्यदर्पदलनं केदारमीशं भजे।
ॐ केदारः पूर्वतः पातु चाग्नेय्यां रवलेश्वरः।
दक्षिणे वारिजाक्षस्तु नैर्ऋत्यां रक्षसूदनः।
पश्चिमे पन्नगेशश्च वायव्यां दैत्यनाशकः।
उत्तरे उत्तरेशश्च ईशान्यां ईश एव च।
ऊर्ध्वं गङ्गाधरः पातु धरायाञ्च त्रिविक्रमः।
एवं दशदिशोन्यस्य पश्चादङ्गेषु विन्यसेत्।
शिखायां रेणुकानाथो मस्तके भाललोचनः।
भालं मे रक्ष भगवन् भ्रूमध्ये मेदिनीपतिः।
नेत्रयोर्ज्योतिनाथश्च कर्णयोः कीर्तिवर्धनः।
कुण्डलीनाः कपोलौ च नासिकां विघ्ननाशनः।
ओष्ठद्वयमुमानाथो दन्तयोर्धरणीधरः।
जिह्वायां वेदजिह्वश्च हनुश्चहनुमत्प्रियः।
ग्रीवायां नीलकण्ठश्च स्कन्धौ स्कन्दप्रियङ्करः।
बाहोः शस्त्रभृतां श्रेष्ठो हस्ते डमरुधारकः।
हृदयं विश्वनाथश्च उदरं मे जनप्रियः।
नाभिं पातु गुहावासः कटिमध्ये कपालभृत्।
गुह्ये गुह्यनिवासश्च उरुभ्यामुक्षवाहनः।
जान्वोर्जह्नुसुताधारी जङ्घयोर्जङ्गनोद्बली।
गुल्फयोर्गूढकर्तात्मा पादयोः पदवन्दितः।
नखेषु रोमकूपेषु व्यापकः सर्वसन्धिषु।
अग्रतः पातु मे खड्गी पृष्ठतः पातु शूलवान्।
पातु मां पात्रधारी च वातपित्तकफादिषु।
जले जलधरः पातु स्थले स्थाणुः सनातनः।
महार्णवे महादुर्गे अग्निचोरभयेषु च।
शस्त्रक्षतेषु यो रक्षेद् रत्नासुरनिबर्हणः।
सुप्तिप्रमादविपदै रक्षमां गिरिवासकः।
य इदं कवचं दिव्यं केदारस्य महात्मनः।
पठन्ति शृण्वते वाणी सर्वपापैः प्रमुच्यते।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकेदारनाथ कवच

READ
केदारनाथ कवच
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
