|| श्रीखण्डराजस्तोत्रम् ||
श्रीशङ्करावतारोऽयं खण्डराजो महामतिः ।
तस्मै महालसेशाय मणिमल्लारये नमः ॥ १॥
ऋषीणां यस्तपःसिद्ध्या अवतीर्य महीतले ।
दैत्याननाशयत्तस्मै मणिमल्लारये नमः ॥ २॥
यो वेदमयमास्थाय महाश्वमपराजितम् ।
जघ्ने दैत्यरिपून्तस्मै मणिमल्लारये नमः ॥ ३॥
पीतवस्त्रपरीधानः पीताभरणभूषितः ।
त्रैलोक्यवन्दितस्तस्मै मणिमल्लारये नमः ॥ ४॥
मार्गशीर्षे महामासे प्रत्यब्दं यन्महोत्सवः ।
योऽभीष्टदो विभुस्तस्मै मणिमल्लारये नमः ॥ ५॥
देवः प्रतापमार्तण्डभैरवः शत्रुकृन्तनः ।
सर्वापत्तिहरस्तस्मै मणिमल्लारये नमः ॥ ६॥
खण्डराज प्रसीद त्वं सर्वापत्तिमपाकुरु ।
पाहि मां त्वं प्रभो तुभ्यं मणिमल्लारये नमः ॥ ७॥
कायेन मनसा वाचा येऽपराधा मया कृताः ।
तान्क्षमस्व प्रभो तुभ्यं मणिमल्लारये नमः ॥ ८॥
खण्डराजस्तुतिमिमां त्रिसन्ध्यं यः पठेद्विजः ।
सर्वान्कामान्स आप्त्वेह शिवलोके महीयते ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीखण्डराजस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now