देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः PDF संस्कृत
Download PDF of Krrishnajanmastutih Sanskrit
Shri Krishna ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः संस्कृत Lyrics
|| देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः ||
देवक्युवाच ।
रूपं यत्तत्प्राहुरव्यक्तमाद्यं
ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं
स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥
नष्टे लोके द्विपरार्धावसाने
महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते
भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयां
स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥
मर्त्यो मृत्युव्यालभीतः पलायन्
लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥
स त्वं घोरादुग्रसेनात्मजान्न
स्त्राहि त्रस्तान् भृत्यवित्रासहासि ।
रूपं चेदं पौरुषं ध्यानधिष्ण्यं
मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८॥
जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९॥
उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।
शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३०॥
विश्वं यदेतत्स्वतनौ निशान्ते
यथावकाशं पुरुषः परो भवान् ।
बिभर्ति सोऽयं मम गर्भगोऽभू
दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१॥
इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता
देवकीकृता स्तुतिः समाप्ता ।
इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे तृतीयाध्यायान्तर्गतं
देवकीकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदेवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
READ
देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
