ब्रह्मणा कृता श्रीकृष्णस्तुतिः PDF संस्कृत
Download PDF of Krrishnastutihbrahma2 Sanskrit
Shri Krishna ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
ब्रह्मणा कृता श्रीकृष्णस्तुतिः संस्कृत Lyrics
|| ब्रह्मणा कृता श्रीकृष्णस्तुतिः ||
कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च ।
भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥ १०७॥
ब्रह्मोवाच
नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे ।
नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने ॥ १०८॥
अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः ।
अनादिमध्यान्तरूप स्वरूपात्मन्नमोऽस्तु ते ॥ १०९॥
नित्यज्ञानबलैश्वर्यवीर्यतेजोमयस्य च ।
महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ॥ ११०॥
त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च ।
शरीरपुरुषत्वस्य छन्दःपुरुष एव च ॥ १११॥
चत्वारः पुरुषास्त्वं च पुराणः पुरुषोत्तम ।
विभूतयस्तव ब्रह्मन्पृथिव्यग्न्यनिलादयः ॥ ११२॥
तव वाचा समुद्भूतौ क्ष्मा वह्नी जगदीश्वर ।
अन्तरिक्षं च वायुश्च सृष्टौ प्राणेन ते विभो ॥ ११३॥
चक्षुषा तव संसृष्टौ द्यौश्चादित्यस्तथाव्यय ।
दिशश्च चन्द्रमाः सृष्टाः श्रोत्रेण तव चानघ ॥ ११४॥
अपां स्रावश्च वरुणो मनसा ते महेश्वर ।
उक्ते महति मीमांसे यत्तद्ब्रह्मप्रकाशते ॥ ११५॥
तथैव चाध्वरेष्वेतदेतदेव महाव्रते ।
छन्दोगे ये नभस्येतद्दिव्ये तद्वायुरेव तत् ॥ ११६॥
आकाश एतदेवेदमोषधीष्वेवमेव च ।
नक्षत्रेषु च सर्वेषु ग्रहेष्वेतद्दिवाकरे ॥ ११७॥
एवम्भूतेष्वेवमेव ब्रह्मेत्याचक्षते श्रुतिः ।
तदेव परमं ब्रह्म प्रज्ञातं परितोऽमृतम् ॥ ११८॥
हिरण्मयोऽव्ययो यज्ञः शुचिः शुचिषदित्यपि ।
वैदिकान्यभिधेयानि तथैतान्यस्य न क्वचित् ॥ ११९॥
चक्षुर्मयं श्रोत्रमयं छन्दोमयमनोमयम् ।
वाङ्मयं परमात्मानं परेशं शंसति श्रुतिः ॥ १२०॥
इति सर्वोपनिषदामर्थस्त्वं कमलेक्षण ।
स्तोतुं न शक्तोऽयं त्वां तु सर्ववेदान्तपारगम् ॥ १२१॥
महापराधमेतत्ते वत्सापहरणं मया ।
कृतं तत्क्षम्यतां नाथ शरणागतवत्सल ॥ १२२॥
इति ब्रह्मणा कृता श्रीकृष्णस्तुतिः समाप्ता ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowब्रह्मणा कृता श्रीकृष्णस्तुतिः
READ
ब्रह्मणा कृता श्रीकृष्णस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
