इन्द्रकृता श्रीकृष्णस्तुतिः PDF संस्कृत
Download PDF of Krrishnastutihindra Sanskrit
Shri Krishna ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
इन्द्रकृता श्रीकृष्णस्तुतिः संस्कृत Lyrics
|| इन्द्रकृता श्रीकृष्णस्तुतिः ||
ततः शतक्रतुर्देवः समेत्य मधुसूदनम् ।
तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥ १८६॥
इन्द्र उवाच
नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम ।
त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते ॥ १८७॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः ।
त्वमेव सर्वदेवानां पिता माता च केशव ॥ १८८॥
अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत ।
त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः ॥ १८९॥
पृथिवीं द्यामिमां देव त्वमेव धृतवानसि ।
आत्मदः फलदो यश्च स्यादेवं जगदीश्वर ॥ १९०॥
अवाप्तं तच्च त्रिदशैः प्रकाशं जगताम्पतेः ।
अमृतं चैव मृत्युश्च छाया तव सनातन ॥ १९१॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
हेमवन्त इमे यस्य समुद्भूता हिरण्मयाः ॥ १९२॥
समुद्रा रसना यस्य वाहस्तस्यैव केशव ।
इमा दिशः प्रतिदिशो वायुर्यस्य तवाव्यय ॥ १९३॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
येन त्वया समारूढा पृथिवी वर्द्धता पुनः ॥ १९४॥
स्वर्लोकः स्तम्भितो येन त्वया ब्रह्मन्महेश्वर ।
त्वमन्तरिक्षे रजसो वसानः सर्वगोऽव्ययः ॥ १९५॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
यं क्रन्दसि राजमाने तप्तभासे गुणान्विते ॥ १९६॥
अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा ।
यत्रास्ति सूर उदितो विभाति परमे पदे ॥ १९७॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
यदापो बृहतीर्विश्व ब्रह्ममायं जनार्दनाः ॥ १९८॥
गर्भं दधानाः सर्गेऽत्र जनयन्तीरघौघकृत् ।
समवर्तत देवानामसुरेकोऽव्ययो विभुः ॥ १९९॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् ॥ २०० (६.२४५.२००)
यज्ञं दधानास्तत्रादौ जनयन्तीर्हविः पुमान् ।
यो देवेष्वेक एवासीदधिदेवः परात्परः ॥ २०१॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
मा नो हिंसीज्जनिता यः पृथिव्या अव्ययः पुमान् ॥ २०२॥
यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः ।
यश्चन्द्रो बृहतीरपो जजान सकलं जगत् ॥ २०३॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
एतानि विश्वजातानि बभूव परिता प्रभो ॥ २०४॥
त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः ।
यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः ॥ २०५॥
त्रयाणां पतयः स्याम तव कारुण्यवीक्षणात् ।
हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् ॥ २०६॥
आप्रणखात्सर्वं हिरण्यं सविता तु हिरण्यभाक् ।
असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः ॥ २०७॥
तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमम् ।
सदा धीमहि ते रूपं धियो यो नः प्रभाति हि ॥ २०८॥
नमस्ते पुण्डरीकाक्ष श्रीश सर्वेश केशव ।
वेदान्तवेद्य यज्ञेश यज्ञरूप नमोऽस्तु ते ॥ २०९॥
नमस्ते वासुदेवाय गोपवेषाय ते नमः ।
तत्सर्वध्वंसनादेव अपराधं मया कृतम् ॥ २१०॥
इति इन्द्रकृता श्रीकृष्णस्तुतिः समाप्ता ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowइन्द्रकृता श्रीकृष्णस्तुतिः
READ
इन्द्रकृता श्रीकृष्णस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
