श्रीकृष्णस्तुतिर्मङ्गलम् PDF संस्कृत
Download PDF of Krrishnastutirmangalam Sanskrit
Shri Krishna ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीकृष्णस्तुतिर्मङ्गलम् संस्कृत Lyrics
|| श्रीकृष्णस्तुतिर्मङ्गलम् ||
नमः परमकल्याण नमस्ते विश्वमङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ १॥
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ २॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३॥
नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ ४॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ५॥
राधिकाऽऽलिङ्गिताङ्गाय नमो रासविहारिणे ।
राजीवायतनेत्राय रसिकेशाय ते नमः ॥ ६॥
मुग्धगोपवधूत्तुङ्गकुचमण्डलमर्दिने ।
मुरलीगानलोलाय मुकुन्दायास्तु मङ्गलम् ॥ ७॥
नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ ८॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ ९॥
नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचनः ।
सञ्चरन् क्वणितकिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ॥ १०॥
इति श्रीकृष्णस्तुतिः – मङ्गलं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकृष्णस्तुतिर्मङ्गलम्
READ
श्रीकृष्णस्तुतिर्मङ्गलम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
