श्रीलक्ष्मीधराष्टकम् PDF संस्कृत
Download PDF of Lakshmidhar Ashtakam
Lakshmi Ji ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीलक्ष्मीधराष्टकम् संस्कृत Lyrics
|| श्रीलक्ष्मीधराष्टकम् ||
मङ्गलं श्यामलं शीतलं कोमलं
राधिकावल्लभं निर्मलं माधवम् ।
मूरलीमोहनं देवकीनन्दनं
कृष्णनारायणं वासुदेवं भजे ॥ १॥
श्रीधरं सुन्दरं विष्णुदामोदर-
मिन्दिरावल्लभं देवपीताम्बरम् ।
गोपवृन्दारकं पापसङ्घातकं
सौख्यविस्तारकं वासुदेवं भजे ॥ २॥
दारवं भास्वरं गोलनेत्रोज्ज्वलं
घोषयात्राकरं चारुलीलाकरम् ।
नीलशैलेश्वरं श्रीपुरीनागरं
देवताशेखरं वासुदेवं भजे ॥ ३॥
भोगदं योगदं मोक्षदं केशवं
भक्तपालं जगन्नाथ-पापापहम् ।
नीलमेघावृतं चेलचामीकृतं
शान्तिदं स्वस्तिदं वासुदेवं भजे ॥ ४॥
राघवं बान्धवं जानकीनायकं
दैत्यसन्तारकं सत्यसम्पालकम् ।
कोशले नन्दितं वासवैर्वन्दितं
श्यामदूर्वादलं रामचन्द्रं भजे ॥ ५॥
नृसिंहं भीषणं दुष्टसंहारकं
सर्वगं शाश्वतं सिद्धविद्याधरम् ।
लोकनाथं महाविष्णु-चक्रायुधं
शर्वसर्वेश्वरं वासुदेवं भजे ॥ ६॥
केतनं नूतनं मन्दिरे शोभनं
वेतनं देहि मे त्वत्पुरे सत्वरम् ।
गुण्डिचावामनं घोषयात्राधनं
वेदवाणीश्वरं वासुदेवं भजे ॥ ७॥
स्यन्दने दर्शनं घोरतापापहं
मन्दिरे निर्जितं कालिआ नामकम् ।
सम्पदापत्सु वा ब्रह्मदारुप्रियं
कामनापूरकं वासुदेवं भजे ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीलक्ष्मीधराष्टकं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीलक्ष्मीधराष्टकम्
READ
श्रीलक्ष्मीधराष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
