Lakshmi Ji

श्रीलक्ष्मीधराष्टकम्

Lakshmidhar Ashtakam

Lakshmi Ji ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीलक्ष्मीधराष्टकम् ||

मङ्गलं श्यामलं शीतलं कोमलं
राधिकावल्लभं निर्मलं माधवम् ।
मूरलीमोहनं देवकीनन्दनं
कृष्णनारायणं वासुदेवं भजे ॥ १॥

श्रीधरं सुन्दरं विष्णुदामोदर-
मिन्दिरावल्लभं देवपीताम्बरम् ।
गोपवृन्दारकं पापसङ्घातकं
सौख्यविस्तारकं वासुदेवं भजे ॥ २॥

दारवं भास्वरं गोलनेत्रोज्ज्वलं
घोषयात्राकरं चारुलीलाकरम् ।
नीलशैलेश्वरं श्रीपुरीनागरं
देवताशेखरं वासुदेवं भजे ॥ ३॥

भोगदं योगदं मोक्षदं केशवं
भक्तपालं जगन्नाथ-पापापहम् ।
नीलमेघावृतं चेलचामीकृतं
शान्तिदं स्वस्तिदं वासुदेवं भजे ॥ ४॥

राघवं बान्धवं जानकीनायकं
दैत्यसन्तारकं सत्यसम्पालकम् ।
कोशले नन्दितं वासवैर्वन्दितं
श्यामदूर्वादलं रामचन्द्रं भजे ॥ ५॥

नृसिंहं भीषणं दुष्टसंहारकं
सर्वगं शाश्वतं सिद्धविद्याधरम् ।
लोकनाथं महाविष्णु-चक्रायुधं
शर्वसर्वेश्वरं वासुदेवं भजे ॥ ६॥

केतनं नूतनं मन्दिरे शोभनं
वेतनं देहि मे त्वत्पुरे सत्वरम् ।
गुण्डिचावामनं घोषयात्राधनं
वेदवाणीश्वरं वासुदेवं भजे ॥ ७॥

स्यन्दने दर्शनं घोरतापापहं
मन्दिरे निर्जितं कालिआ नामकम् ।
सम्पदापत्सु वा ब्रह्मदारुप्रियं
कामनापूरकं वासुदेवं भजे ॥ ८॥

इति प्रदीप्तनन्दशर्मविरचितं श्रीलक्ष्मीधराष्टकं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीलक्ष्मीधराष्टकम् PDF

श्रीलक्ष्मीधराष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App