गणाधिप अष्टक स्तोत्र

|| गणाधिप अष्टक स्तोत्र || श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः शिवतनयः शिरोविधृतशीतमयूखशिशुः। अविरतकर्णतालजमरुद्गमनागमनै- रनभिमतं धुनोति च मुदं वितनोति च यः। सकलसुरासुरादिशरणीकरणीयपदः करटिमुखः करोतु करुणाजलधिः कुशलम्। प्रबलतरान्तरायतिमिरौघनिराकरण- प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः। द्विरदमुखो धुनोतु दुरितानि दुरन्तमद- त्रिदशविरोधियूथकुमुदाकरतिग्मकरः। नतशतकोटिपाणिमकुटीतटवज्रमणि- प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः। कलुषमपाकरोतु कृपया कलभेन्द्रमुखः कुलगिरिनन्दिनीकुतुकदोहनसंहननः। तुलितसुधाझरस्वकरशीकरशीतलता- शमितनताशयज्वलदशर्मकृशानुशिखः। गजवदनो धिनोतु धियमाधिपयोधिवल- त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम्। करटकटाहनिर्गलदनर्गलदानझरी- परिमललोलुपभ्रमददभ्रमदभ्रमरः। दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ- द्दितिजचमूचमूरुमृगराडिभराजमुखः। प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा- घनकुचकुम्भगाढपरिरम्भणकण्टकितः। अतुलबलोऽतिवेलमघवन्मतिदर्पहरः स्फुरदहितापकारिमहिमा वपुषीढविधुः। हरतु विनायकः स…

गणेश मणिमाला स्तोत्र

|| गणेश मणिमाला स्तोत्र || देवं गिरिवंश्यं गौरीवरपुत्रं लम्बोदरमेकं सर्वार्चितपत्रम्। संवन्दितरुद्रं गीर्वाणसुमित्रं रक्तं वसनं तं वन्दे गजवक्त्रम्। वीरं हि वरं तं धीरं च दयालुं सिद्धं सुरवन्द्यं गौरीहरसूनुम्। स्निग्धं गजमुख्यं शूरं शतभानुं शून्यं ज्वलमानं वन्दे नु सुरूपम्। सौम्यं श्रुतिमूलं दिव्यं दृढजालं शुद्धं बहुहस्तं सर्वं युतशूलम्। धन्यं जनपालं सम्मोदनशीलं बालं समकालं वन्दे मणिमालम्। दूर्वार्चितबिम्बं सिद्धिप्रदमीशं रम्यं रसनाग्रं…

कल्पक गणपति स्तोत्र

|| कल्पक गणपति स्तोत्र || श्रीमत्तिल्ववने सभेशसदनप्रत्यक्ककुब्गोपुरा- धोभागस्थितचारुसद्मवसतिर्भक्तेष्टकल्पद्रुमः । नृत्तानन्दमदोत्कटो गणपतिः संरक्षताद्वोऽनिशं दूर्वासःप्रमुखाखिलर्षिविनुतः सर्वेश्वरोऽग्र्योऽव्ययः ॥ श्रीमत्तिल्लवनाभिधं पुरवरं क्षुल्लावुकं प्राणिनां इत्याहुर्मुनयः किलेति नितरां ज्ञातुं च तत्सत्यताम् । आयान्तं निशि मस्करीन्द्रमपि यो दूर्वाससं प्रीणयन् नृत्तं दर्शयति स्म नो गणपतिः कल्पद्रुकल्पोऽवतात् ॥ देवान् नृत्तदिदृक्षया पशुपतेरभ्यागतान् कामिनः शक्रादीन् स्वयमुद्धृतं निजपदं वामेतरं दर्शयन् । दत्वा तत्तदभीष्टवर्गमनिशं स्वर्गादिलोकान्विभुः निन्ये यः शिवकामिनाथतनयः…

मारुति स्तोत्र

|| मारुति स्तोत्र || ओं नमो वायुपुत्राय भीमरूपाय धीमते| नमस्ते रामदूताय कामरूपाय श्रीमते| मोहशोकविनाशाय सीताशोकविनाशिने| भग्नाशोकवनायास्तु दग्धलोकाय वाङ्मिने| गतिर्निर्जितवाताय लक्ष्मणप्राणदाय च| वनौकसां वरिष्ठाय वशिने वनवासिने| तत्त्वज्ञानसुधासिन्धुनिमग्नाय महीयसे| आञ्जनेयाय शूराय सुग्रीवसचिवाय ते| जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च| नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे| यातनानाशनायास्तु नमो मर्कटरूपिणे| यक्षराक्षसशार्दूलसर्पवृश्चिकभीहृते| महाबलाय वीराय चिरञ्जीविन उद्धते| हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये| बलिनामग्रगण्याय नमः पाहि च मारुते| लाभदोऽसि त्वमेवाशु हनुमन्…

रामदूत स्तोत्र

|| रामदूत स्तोत्र || वज्रदेहममरं विशारदं भक्तवत्सलवरं द्विजोत्तमम्। रामपादनिरतं कपिप्रियं रामदूतममरं सदा भजे। ज्ञानमुद्रितकरानिलात्मजं राक्षसेश्वरपुरीविभावसुम्। मर्त्यकल्पलतिकं शिवप्रदं रामदूतममरं सदा भजे। जानकीमुखविकासकारणं सर्वदुःखभयहारिणं प्रभुम्। व्यक्तरूपममलं धराधरं रामदूतममरं सदा भजे। विश्वसेव्यममरेन्द्रवन्दितं फल्गुणप्रियसुरं जनेश्वरम्। पूर्णसत्त्वमखिलं धरापतिं रामदूतममरं सदा भजे। आञ्जनेयमघमर्षणं वरं लोकमङ्गलदमेकमीश्वरम्। दुष्टमानुषभयङ्करं हरं रामदूतममरं सदा भजे। सत्यवादिनमुरं च खेचरं स्वप्रकाशसकलार्थमादिजम्। योगगम्यबहुरूपधारिणं रामदूतममरं सदा भजे। ब्रह्मचारिणमतीव शोभनं कर्मसाक्षिणमनामयं…

हनुमत् पंचरत्न स्तोत्र

|| हनुमत् पंचरत्न स्तोत्र || वीताखिलविषयच्छेदं जातानन्दाश्रु- पुलकमत्यच्छम्। सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम्। तरुणारुणमुखकमलं करुणारसपूर- पूरितापाङ्गम्। सञ्जीवनमाशासे मञ्जुलमहिमान- मञ्जनाभाग्यम्। शम्बरवैरिशरातिग- मम्बुजदलविपुल- लोचनोदारम्। कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठ- मेकमवलम्बे। दूरीकृतसीतार्तिः प्रकटीकृतराम- वैभवस्फूर्तिः। दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः। वानरनिकराध्यक्षं दानवकुलकुमुद- रविकरसदृक्षम्। दीनजनावनदीक्षं पवनतपःपाक- पुञ्जमद्राक्षम्। एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्। चिरमिह निखिलान् भोगान् भुङ्क्त्वा श्रीरामभक्तिभाग् भवति।

आञ्जनेय मंगल अष्टक स्तोत्र

|| आञ्जनेय मंगल अष्टक स्तोत्र || कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे । जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ।। मनोवेगाय उग्राय कालनेमिविदारिणे । लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ।। महाबलाय शान्ताय दुर्दण्डीबन्धमोचन । मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ।। पर्वतायुधहस्ताय रक्षःकुलविनाशिने । श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ।। विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे । ऋषिभिः सेवितायास्तु आञ्जनेयाय मङ्गलम् ।। दीर्घबालाय कालाय लङ्कापुरविदारिणे । लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ।।…

वायुपुत्र स्तोत्र

|| वायुपुत्र स्तोत्र || उद्यन्मार्ताण्डकोटि- प्रकटरुचिकरं चारुवीरासनस्थं मौञ्जीयज्ञोपवीताभरण- मुरुशिखाशोभितं कुण्डलाङ्गम्। भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम्। श्रीहनुमान्महावीरो वीरभद्रवरोत्तमः। वीरः शक्तिमतां श्रेष्ठो वीरेश्वरवरप्रदः। यशस्करः प्रतापाढ्यः सर्वमङ्गलसिद्धिदः। सानन्दमूर्तिर्गहनो गम्भीरः सुरपूजितः। दिव्यकुण्डलभूषाय दिव्यालङ्कारशोभिने। पीताम्बरधरः प्राज्ञो नमस्ते ब्रह्मचारिणे। कौपीनवसनाक्रान्त- दिव्ययज्ञोपवीतिने । कुमाराय प्रसन्नाय नमस्ते मौञ्जिधारिणे। सुभद्रः शुभदाता च सुभगो रामसेवकः। यशःप्रदो महातेजा बलाढ्यो वायुनन्दनः। जितेन्द्रियो महाबाहुर्वज्रदेहो नखायुधः।…

हनुमान भुजंग स्तोत्र

|| हनुमान भुजंग स्तोत्र || प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं जगद्भीतिशौर्यं तुषाराद्रिधैर्यम्। तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्रात्पवित्रम्। भजे पावनं भावनानित्यवासं भजे बालभानुप्रभाचारुभासम्। भजे चन्द्रिकाकुन्दमन्दारहासं भजे सन्ततं रामभूपालदासम्। भजे लक्ष्मणप्राणरक्षातिदक्षं भजे तोषितानेकगीर्वाणपक्षम्। भजे घोरसङ्ग्रामसीमाहताक्षं भजे रामनामाति सम्प्राप्तरक्षम्। कृताभीलनादं क्षितिक्षिप्तपादं घनक्रान्तभृङ्गं कटिस्थोरुजङ्घम्। वियद्व्याप्तकेशं भुजाश्लेषिताश्मं जयश्रीसमेतं भजे रामदूतम्। चलद्वालघातं भ्रमच्चक्रवालं कठोराट्टहासं प्रभिन्नाब्जजाण्डम्। महासिंहनादाद्विशीर्णत्रिलोकं भजे चाञ्जनेयं प्रभुं वज्रकायम्। रणे भीषणे मेघनादे सनादे…

संकट मोचन हनुमान स्तुति

|| संकट मोचन हनुमान स्तुति || वीर! त्वमादिथ रविं तमसा त्रिलोकी व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः। देवैः स्तुतस्तमवमुच्य निवारिता भी- र्जानाति को न भुवि सङ्कटमोचनं त्वाम्। भ्रातुर्भया- दवसदद्रिवरे कपीशः शापान्मुने रधुवरं प्रतिवीक्षमाणः। आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं र्जानाति को न भुवि सङ्कटमोचनं त्वाम्। विज्ञापयञ्जनकजा- स्थितिमीशवर्यं सीताविमार्गण- परस्य कपेर्गणस्य। प्राणान् ररक्षिथ समुद्रतटस्थितस्य र्जानाति को न भुवि…

पंचमुख हनुमान पंचरत्न स्तोत्र

|| पंचमुख हनुमान पंचरत्न स्तोत्र || श्रीरामपादसरसी- रुहभृङ्गराज- संसारवार्धि- पतितोद्धरणावतार। दोःसाध्यराज्यधन- योषिददभ्रबुद्धे पञ्चाननेश मम देहि करावलम्बम्। आप्रातरात्रिशकुनाथ- निकेतनालि- सञ्चारकृत्य पटुपादयुगस्य नित्यम्। मानाथसेविजन- सङ्गमनिष्कृतं नः पञ्चाननेश मम देहि करावलम्बम्। षड्वर्गवैरिसुख- कृद्भवदुर्गुहाया- मज्ञानगाढतिमिराति- भयप्रदायाम्। कर्मानिलेन विनिवेशितदेहधर्तुः पञ्चाननेश मम देहि करावलम्बम्। सच्छास्त्रवार्धिपरि- मज्जनशुद्धचित्ता- स्त्वत्पादपद्मपरि- चिन्तनमोदसान्द्राः। पश्यन्ति नो विषयदूषितमानसं मां पञ्चाननेश मम देहि करावलम्बम्। पञ्चेन्द्रियार्जित- महाखिलपापकर्मा शक्तो न भोक्तुमिव…

हनुमान मंगल अष्टक स्तोत्र

|| हनुमान मंगल अष्टक स्तोत्र || वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे। पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते। करुणारसपूर्णाय फलापूपप्रियाय च। नानामाणिक्यहाराय मङ्गलं श्रीहनूमते। सुवर्चलाकलत्राय चतुर्भुजधराय च। उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते। दिव्यमङ्गलदेहाय पीताम्बरधराय च। तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते। भक्तरक्षणशीलाय जानकीशोकहारिणे। ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते। पम्पातीरविहाराय सौमित्रिप्राणदायिने। सृष्टिकारणभूताय मङ्गलं श्रीहनूमते। रम्भावनविहाराय गन्धमादनवासिने। सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते। पञ्चाननाय भीमाय कालनेमिहराय च। कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते।…

हनुमत् ताण्डव स्तोत्र

|| हनुमत् ताण्डव स्तोत्र || वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्। रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्। भजे समीरनन्दनं सुभक्तचित्तरञ्जनं दिनेशरूपभक्षकं‌ समस्तभक्तरक्षकम्। सुकण्ठकार्यसाधकं विपक्षपक्षबाधकं समुद्रपारगामिनं नमामि सिद्धकामिनम्। सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न। इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा स रामदूत आश्रयः। सुदीर्घबाहुलोचनेन पुच्छगुच्छशोभिना भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ। कृतौ हि कोसलाधिपौ कपीशराजसन्निधौ विदहजेशलक्ष्मणौ स मे शिवं…

सुब्रह्मण्य भुजंग स्तोत्र

|| सुब्रह्मण्य भुजंग स्तोत्र || सदा बालरूपाऽपि विघ्नाद्रिहन्त्री महादन्तिवक्त्राऽपि पञ्चास्यमान्या। विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याणमूर्तिः। न जानामि शब्दं न जानामि चार्थं न जानामि पद्यं न जानामि गद्यम्। चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम्। मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम्। महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम्। यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव। इति…

हनुमान यन्त्रोद्धारक स्तोत्र

|| हनुमान यन्त्रोद्धारक स्तोत्र || यन्त्रोद्धारकनामको रघुपतेराज्ञां गृहीत्वार्णवं तीर्त्वाशोकवने स्थितां स्वजननीं सीतां निशाम्याशुगः । कृत्वा संविदमङ्गुलीयकमिदं दत्वा शिरोभूषणं सङ्गृह्यार्णवमुत्पपात हनूमान् कुर्यात् सदा मङ्गलम् ॥ प्राप्तस्तं सदुदारकीर्तिरनिलः श्रीरामपादाम्बुजं नत्वा कीशपतिर्जगाद पुरतः संस्थाप्य चूडामणिम् । विज्ञाप्यार्णवलङ्घनादिशुभकृन्नानाविधं भूतिदं यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ धर्माधर्मविचक्षणः सुरतरुर्भक्तेष्टसन्दोहने दुष्टारातिकरीन्द्रकुम्भदलने पञ्चाननः पाण्डुजः । द्रौपद्यै प्रददौ कुबेरवनजं सौगन्धिपुष्पं मुदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्…

सुब्रह्मण्य अष्टक स्तोत्र

|| सुब्रह्मण्य अष्टक स्तोत्र || हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कजपद्मबन्धो। श्रीशादिदेवगणपूजितपादपद्म वल्लीशनाथ मम देहि करावलम्बम्। देवादिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते वल्लीशनाथ मम देहि करावलम्बम्। नित्यान्नरदाननिरताखिलरोगहारिन्‌ तस्मात्प्रदानपरिपूरितभक्तकाम। श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीशनाथ मम देहि करावलम्बम्। क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल- चापादिशस्त्रपरिमण्डितदिव्यपाणे। श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह वल्लीशनाथ मम देहि करावलम्बम्। देवादिदेव रथमण्डलमध्यवेद्य देवेन्द्रपीडनकरं दृढचापहस्तम्‌। शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीशनाथ मम देहि करावलम्बम्। हीरादिरत्नमणियुक्तकिरीटहार केयूरकुण्डललसत्कवचाभिरामम्‌। हे वीर तारक…

स्कन्द स्तोत्र

|| स्कन्द स्तोत्र || षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम्। देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम्। तारकासुरहन्तारं मयूरासनसंस्थितम्। शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम्। विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम्। कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम्। कुमारं मुनिशार्दूल- मानसानन्दगोचरम्। वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम्। प्रलयस्थितिकर्तार- मादिकर्तारमीश्वरम्। भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम्। विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम्। सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम्। स्कन्दषट्कस्तोत्रमिदं यः…

गुह अष्टक स्तोत्र

|| गुह अष्टक स्तोत्र || शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननिरन्तर- लोकगुणातीतं गुरुणातीतम्। वल्लीवत्सल- भृङ्गारण्यक- तारुण्यं वरकारुण्यं सेनासारमुदारं प्रणमत देवेशं गुहमावेशम्। विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं भावाभावजगत्त्रय- रूपमथारूपं जितसारूपम्। नानाभुवनसमाधेयं विनुताधेयं वरराधेयं केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम्। स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं ज्योतिःस्तोमनिरन्तर- रम्यमहःसाम्यं मनसायाम्यम्। मायाश‍ृङ्खल- बन्धविहीनमनादीनं परमादीनं शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम्। व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं ज्योतिश्चक्रसमर्पित- कायमनाकाय- व्ययमाकायम्। भक्तत्राणनशक्त्या युक्तमनुद्युक्तं…

स्वामिनाथ स्तोत्र

|| स्वामिनाथ स्तोत्र || श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम्। श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम्। भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम्। श्रीवीरभद्रादिगणैः समेतं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं सुरसैन्यपालं शूरादिसर्वासुरसूदकं तम्। विरिञ्चिविष्ण्वादिसुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम्। मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं…

षडानन अष्टक स्तोत्र

|| षडानन अष्टक स्तोत्र || नमोऽस्तु वृन्दारकवृन्दवन्द्य- पादारविन्दाय सुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय। नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम्। दात्रे रतानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य। अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय। आपारपारायपरात्पराय नमोऽस्तु तुभ्यं शिखिवाहनाय। नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय। हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे। तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय। सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः। नमोऽस्तु तुभ्यं शरजन्मने…

कार्तिकेय स्तुति

|| कार्तिकेय स्तुति || भास्वद्वज्रप्रकाशो दशशतनयनेनार्चितो वज्रपाणिः भास्वन्मुक्ता- सुवर्णाङ्गदमुकुटधरो दिव्यगन्धोज्ज्वलाङ्गः। पावञ्जेशो गुणाढ्यो हिमगिरितनयानन्दनो वह्निजातः पातु श्रीकार्तिकेयो नतजनवरदो भक्तिगम्यो दयालुः। सेनानीर्देवसेना- पतिरमरवरैः सन्ततं पूजिताङ्घ्रिः सेव्यो ब्रह्मर्षिमुख्यैर्विगतकलि- मलैर्ज्ञानिभिर्मोक्षकामैः। संसाराब्धौ निमग्नैर्गृहसुखरतिभिः पूजितो भक्तवृन्दैः सम्यक् श्रीशम्भुसूनुः कलयतु कुशलं श्रीमयूराधिरूढः। लोकांस्त्रीन् पीडयन्तं दितिदनुजपतिं तारकं देवशत्रुं लोकेशात्प्राप्तसिद्धिं शितकनकशरैर्लीलया नाशयित्वा। ब्रह्मेन्द्राद्यादितेयै- र्मणिगणखचिते हेमसिंहासने यो ब्रह्मण्यः पातु नित्यं परिमलविलसत्-पुष्पवृष्ट्याऽभिषिक्तः। युद्धे देवासुराणा- मनिमिषपतिना स्थापितो…

सुब्रह्मण्य पंचक स्तोत्र

|| सुब्रह्मण्य पंचक स्तोत्र || सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं वह्न्युद्भूतं भक्तकृपालुं गुहमेकम्। वल्लीनाथं षण्मुखमीशं शिखिवाहं सुब्रह्मण्यं देवशरण्यं सुरमीडे। स्वर्णाभूषं धूर्जटिपुत्रं मतिमन्तं मार्ताण्डाभं तारकशत्रुं जनहृद्यम्। स्वच्छस्वान्तं निष्कलरूपं रहितादिं सुब्रह्मण्यं देवशरण्यं सुरमीडे। गौरीपुत्रं देशिकमेकं कलिशत्रुं सर्वात्मानं शक्तिकरं तं वरदानम्। सेनाधीशं द्वादशनेत्रं शिवसूनुं सुब्रह्मण्यं देवशरण्यं सुरमीडे। मौनानन्दं वैभवदानं जगदादिं तेजःपुञ्जं सत्यमहीध्रस्थितदेवम्। आयुष्मन्तं रक्तपदाम्भोरुहयुग्मं सुब्रह्मण्यं देवशरण्यं सुरमीडे। निर्नाशं तं मोहनरूपं…

सुब्रह्मण्य पंचरत्न स्तोत्र

|| सुब्रह्मण्य पंचरत्न स्तोत्र || श्रुतिशतनुतरत्नं शुद्धसत्त्वैकरत्नं यतिहितकररत्नं यज्ञसम्भाव्यरत्नम्। दितिसुतरिपुरत्नं देवसेनेशरत्नं जितरतिपतिरत्नं चिन्तयेत्स्कन्दरत्नम्। सुरमुखपतिरत्नं सूक्ष्मबोधैकरत्नं परमसुखदरत्नं पार्वतीसूनुरत्नम्। शरवणभवरत्नं शत्रुसंहाररत्नं स्मरहरसुतरत्नं चिन्तयेत्स्कन्दरत्नम्। निधिपतिहितरत्नं निश्चिताद्वैतरत्नं मधुरचरितरत्नं मानिताङ्घ्र्यब्जरत्नम्। विधुशतनिभरत्नं विश्वसन्त्राणरत्नं बुधमुनिगुरुरत्नं चिन्तयेत्स्कन्दरत्नम्। अभयवरदरत्नं चाप्तसन्तानरत्नं शुभकरमुखरत्नं शूरसंहाररत्नम्। इभमुखयुतरत्नं स्वीशशक्त्येकरत्नं ह्युभयगतिदरत्नं चिन्तयेत्स्कन्दरत्नम्। सुजनसुलभरत्नं स्वर्णवल्लीशरत्नं भजनसुखदरत्नं भानुकोट्याभरत्नम्। अजशिवगुरुरत्नं चाद्भुताकाररत्नं द्विजगणनुतरत्नं चिन्तयेत्स्कन्दरत्नम्।

षण्मुख अष्टक स्तोत्र

|| षण्मुख अष्टक स्तोत्र || देवसेनानिनं दिव्यशूलपाणिं सनातनम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| कार्तिकेयं मयूराधिरूढं कारुण्यवारिधिम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| महादेवतनूजातं पार्वतीप्रियवत्सलम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| गुहं गीर्वाणनाथं च गुणातीतं गुणेश्वरम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| षडक्षरीप्रियं शान्तं सुब्रह्मण्यं सुपूजितम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| तेजोगर्भं महासेनं महापुण्यफलप्रदम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| सुव्रतं सूर्यसङ्काशं सुरारिघ्नं सुरेश्वरम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| कुक्कुटध्वजमव्यक्तं राजवन्द्यं रणोत्सुकम्| श्रीवल्लीदेवसेनेशं षण्मुखं…

कुमार मंगल स्तोत्र

|| कुमार मंगल स्तोत्र || यज्ञोपवीतीकृतभोगिराजो गणाधिराजो गजराजवक्त्रः। सुराधिराजार्चितपादपद्मः सदा कुमाराय शुभं करोतु। विधातृपद्माक्षमहोक्षवाहाः सरस्वतीश्रीगिरिजासमेताः। आयुः श्रियं भूमिमनन्तरूपं भद्रं कुमाराय शुभं दिशन्तु। मासाश्च पक्षाश्च दिनानि ताराः राशिश्च योगाः करणानि सम्यक्। ग्रहाश्च सर्वेऽदितिजास्समस्थाः श्रियं कुमाराय शुभं दिशन्तु। ऋतुर्वसन्तः सुरभिः सुधा च वायुस्तथा दक्षिणनामधेयः। पुष्पाणि शश्वत्सुरभीणि कामः श्रियं कुमाराय शुभं करोतु। भानुस्त्रिलोकीतिलकोऽमलात्मा कस्तूरिकालङ्कृतवामभागः। पम्पासरश्चैव स सागरश्च श्रियं…

स्कंद स्तुति

|| स्कंद स्तुति || षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम्। देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम्। तारकासुरहन्तारं मयूरासनसंस्थितम्। शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम्। विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम्। कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम्। कुमारं मुनिशार्दूलमानसानन्दगोचरम्। वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम्। प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम्। भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम्। विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम्। सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम्। स्कन्दषट्कं स्तोत्रमिदं यः…

गुह मानस पूजा स्तोत्र

|| गुह मानस पूजा स्तोत्र || गुकारो ह्याख्याति प्रबलमनिवार्यं किल तमो हकारो हानिं च प्रथयतितरामेव जगति। अतो मोहान्धत्वं शिथिलयति यन्नाम गुह इत्यमुं देवं ध्यायाम्यभिलषितसन्धाननिपुणम्। समाश्लिष्टं वल्ल्या समुपघटितं बाहुविटपैः स्वमूलायातानां समुचितफलप्रापणचणम्। स्वसेवानिष्ठानां सततमपि सौख्योपगमकं सदा ध्यायाम्येनं कमपि तु गुहाख्यं विटपिनम्। सुराणां सङ्घातैस्समुपगतैः सान्द्रकुतुकैः समाराध्य स्वामिन् भज विहितमावाहनमिदम्। समन्तात्सद्रत्नैः समुपहितसोपानसरणि- स्फुरन्नानाशोभं रचितमपि सिंहासनमिदम्। हृतं गङ्गातुङ्गाद्यखिलतटिनीभ्योऽतिविमलं सुतीर्थं पाद्यार्थं…

द्वादश ज्योतिर्लिंग स्तोत्र

|| द्वादश ज्योतिर्लिंग स्तोत्र || सौराष्ट्रदैशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतम्सम्। भक्तिप्रदानाय कृतावतारं तं सोमनाथं शरणं प्रपद्ये। श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम्। अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहं सुरेशम्। कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय। सदैव मान्धातृपुरे वसन्तम् ओङ्कारमीशं शिवमेकमीडे। पूर्वोत्तरे पारलिकाभिधाने सदाशिवं तं गिरिजासमेतम्। सुरासुराराधितपादपद्मं श्रीवैद्यनाथं सततं नमामि। आमर्दसंज्ञे नगरे च…

महाभैरव अष्टक स्तोत्र

|| महाभैरव अष्टक स्तोत्र || यं यं यं यक्षरूपं दिशि दिशि विदितं भूमिकम्पायमानं सं सं सम्हारमूर्तिं शिरमुकुटजटाशेखरं चन्द्रभूषम्। दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम्। रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं घं घं घं घोषघोषं घघघघघटितं घर्झरं घोरनादम्। कं कं कं कालपाशं दृढदृढदृढितं ज्वालितं कामदाहं तं तं…

वेदसार शिव स्तोत्र

|| वेदसार शिव स्तोत्र || पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्। जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्। महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्। विरूपाक्षमिन्द्वर्क- वह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्। गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्। भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्। शिवाकान्त शम्भो शशाङ्कार्धमौले महेशान शूलिन् जटाजूटधारिन्। त्वमेको जगद्व्यापको विश्वरूपः प्रसीद प्रसीद प्रभो पूर्णरूप।…

श्री शिव तांडव स्तोत्रम्

॥ शिव तांडव स्तोत्र ॥ जटाटवीगलज्जलप्रवाहपावितस्थले, गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्। डमड्डमड्डमड्डमन्निनादवड्डमर्वयं, चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी, विलोलवीचिवल्लरीविराजमानमूर्धनि। धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर, स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे। कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि, क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥ जटा भुजङ्ग पिङ्गल स्फुरत्फणा मणिप्रभा, कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे। मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे, मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ सहस्र लोचनप्रभृत्य शेष लेखशेखर, प्रसूनधूलिधोरणी विधूसरांघ्रिपीठभूः। भुजङ्ग राजमालया निबद्ध जाटजूटक,…

शिव रक्षा स्तोत्र

|| शिव रक्षा स्तोत्र || ओम् अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य। याज्ञवल्क्य-ऋषिः। श्रीसदाशिवो देवता। अनुष्टुप् छन्दः। श्रीसदाशिवप्रीत्यर्थे शिवरक्षास्तोत्रजपे विनियोगः। चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्। गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः। गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः। नयने मदनध्वंसी कर्णौ सर्पविभूषणः। घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः। जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः। श्रीकण्ठः पातु मे कण्ठं स्कन्धौ…

रसेश्वर पंचाक्षर स्तोत्र

|| रसेश्वर पंचाक्षर स्तोत्र || रम्याय राकापतिशेखराय राजीवनेत्राय रविप्रभाय। रामेशवर्याय सुबुद्धिदाय नमोऽस्तु रेफाय रसेश्वराय। सोमाय गङ्गातटसङ्गताय शिवाजिराजेन विवन्दिताय। दीपाद्यलङ्कारकृतिप्रियाय नमः सकाराय रसेश्वराय। जलेन दुग्धेन च चन्दनेन दध्ना फलानां सुरसामृतैश्च। सदाऽभिषिक्ताय शिवप्रदाय नमो वकाराय रसेश्वराय। भक्तैस्तु भक्त्या परिसेविताय भक्तस्य दुःखस्य विशोधकाय। भक्ताभिलाषापरिदायकाय नमोऽस्तु रेफाय रसेश्वराय। नागेन कण्ठे परिभूषिताय रागेन रोगादिविनाशकाय। यागादिकार्येषु वरप्रदाय नमो यकाराय रसेश्वराय। पठेदिदं…

शिव पंचाक्षर नक्षत्रमाला स्तोत्र

|| शिव पंचाक्षर नक्षत्रमाला स्तोत्र || श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय। कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षपाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय। इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय। सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय। आपदद्रिभेदटङ्कहस्त ते नमः शिवाय…

श्री शिव पंचाक्षर स्तोत्रम् अर्थ सहित

।। शिव पंचाक्षर स्तोत्र की विधि ।। प्रात: काल सबसे पहले स्नान आदि करके शिवलिंग का दूध और जल से अभिषेक करें। इसके बाद भगवान शिव की विधिपूर्वक पूजा करें और अंत में शिव पंचाक्षर स्तोत्र के पठन की शुरुआत करना चाहिए। ।। शिव पंचाक्षर स्तोत्र पाठ का लाभ ।। भगवान शिव के इस पंचाक्षर…

शिव जी व्रत कथा एवं पूजा विधि

।। सोमवार व्रत पूजा विधि ।। गाय के शुद्ध कच्चे दूध को शिवलिंग पर अर्पित करना चाहिए। यह करने से मनुष्य के तन-मन-धन से जुड़ी सारी परेशानियां खत्म हो जाती है। इसके बाद शिवलिंग पर शहद या गन्ने का रस चढ़ाए। फिर कपूर, इत्र, पुष्प-धतूरे और भस्म से शिवजी का अभिषेक कर शिव आरती करना…

विश्वनाथ अष्टक स्तोत्र

|| विश्वनाथ अष्टक स्तोत्र || गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम्। नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम्। वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम्। भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम्। शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम्। नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम्। पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम्। दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम्। तेजोमयं सगुणनिर्गुणमद्वितीय- मानन्दकन्दमपराजितमप्रमेयम्। नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम्। रागादिदोषरहितं स्वजनानुरागं वैराग्यशान्तिनिलयं गिरिजासहायम्।…

शिव अपराध क्षमापण स्तोत्र

|| शिव अपराध क्षमापण स्तोत्र || आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः। यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो। बाल्ये दुःखातिरेकान्मल- लुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेन्द्रियेभ्यो भवमलजनिताः जन्तवो मां तुदन्ति। नानारोगादि- दुःखाद्रुदितपरवशः शङ्करं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव…

भयहारक शिव स्तोत्र

|| भयहारक शिव स्तोत्र || व्योमकेशं कालकालं व्यालमालं परात्परम्| देवदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्| शूलहस्तं कृपापूर्णं व्याघ्रचर्माम्बरं शिवम्| वृषारूढं प्रपन्नोऽस्मि कथं मे जायते भयम्| अष्टमूर्तिं महादेवं विश्वनाथं जटाधरम्| पार्वतीशं प्रपन्नोऽस्मि कथं मे जायते भयम्| सुरासुरैश्च यक्षश्च सिद्धैश्चाऽपि विवन्दितम्| मृत्युञ्जयं प्रपन्नोऽस्मि कथं मे जायते भयम्| नन्दीशमक्षरं देवं शरणागतवत्सलम्| चन्द्रमौलिं प्रपन्नोऽस्मि कथं मे जायते भयम्| लोहिताक्षं…

विश्वनाथ स्तोत्र

|| विश्वनाथ स्तोत्र || गङ्गाधरं जटावन्तं पार्वतीसहितं शिवम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| ब्रह्मोपेन्द्रमहेन्द्रादि- सेविताङ्घ्रिं सुधीश्वरम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| भूतनाथं भुजङ्गेन्द्रभूषणं विषमेक्षणम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| पाशाङ्कुशधरं देवमभयं वरदं करैः| वाराणसीपुराधीशं विश्वनाथमहं श्रये| इन्दुशोभिललाटं च कामदेवमदान्तकम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| पञ्चाननं गजेशानतातं मृत्युजराहरम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| सगुणं निर्गुणं चैव तेजोरूपं सदाशिवम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| हिमवत्पुत्रिकाकान्तं स्वभक्तानां मनोगतम्| वाराणसीपुराधीशं विश्वनाथमहं…

सुंदरेश्वर स्तोत्र

|| सुंदरेश्वर स्तोत्र || श्रीपाण्ड्यवंशमहितं शिवराजराजं भक्तैकचित्तरजनं करुणाप्रपूर्णम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। आह्लाददानविभवं भवभूतियुक्तं त्रैलोक्यकर्मविहितं विहितार्थदानम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। अम्भोजसम्भवगुरुं विभवं च शंभुं भूतेशखण्डपरशुं वरदं स्वयंभुम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। कृत्याजसर्पशमनं निखिलार्च्यलिङ्गं धर्मावबोधनपरं सुरमव्ययाङ्गम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। सारङ्गधारणकरं विषयातिगूढं देवेन्द्रवन्द्यमजरं वृषभाधिरूढम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये।

सर्वार्ति नाशन शिव स्तोत्र

|| सर्वार्ति नाशन शिव स्तोत्र || मृत्युञ्जयाय गिरिशाय सुशङ्कराय सर्वेश्वराय शशिशेखरमण्डिताय। माहेश्वराय महिताय महानटाय सर्वातिनाशनपराय नमः शिवाय। ज्ञानेश्वराय फणिराजविभूषणाय शर्वाय गर्वदहनाय गिरां वराय। वृक्षाधिपाय समपापविनाशनाय सर्वातिनाशनपराय नमः शिवाय। श्रीविश्वरूपमहनीय- जटाधराय विश्वाय विश्वदहनाय विदेहिकाय। नेत्रे विरूपनयनाय भवामृताय सर्वातिनाशनपराय नमः शिवाय। नन्दीश्वराय गुरवे प्रमथाधिपाय विज्ञानदाय विभवे प्रमथाधिपाय। श्रेयस्कराय महते त्रिपुरान्तकाय सर्वातिनाशनपराय नमः शिवाय। भीमाय लोकनियताय सदाऽनघाय मुख्याय…

ताण्डवेश्वर स्तोत्र

|| ताण्डवेश्वर स्तोत्र || वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे। इतीशानः सर्वान्परमकरुणा- नीरधिरहो पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति। संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः। हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्बुजं ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः। ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम्। ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम्। गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं चण्डमुण्डविनाशिनी- हृतवामभागमनीश्वरम्। दण्डपाणिकपालभैरव-…

चिरंजीव और आयुषमती की कथा

|| चिरंजीव और आयुषमती की कथा || चिरंजीव एक समय की बात है, एक ब्राह्मण के संतान नहीं थी। उसने महामाया की तपस्या की, और माता जी उसकी तपस्या से प्रसन्न होकर उसे वरदान देने को तैयार हो गईं। ब्राह्मण ने पुत्र प्राप्ति की इच्छा जताई। माता जी ने कहा, “मेरे पास दो प्रकार के…

अघोर रुद्र अष्टक स्तोत्र

|| अघोर रुद्र अष्टक स्तोत्र || कालाभ्रोत्पलकाल- गात्रमनलज्वालोर्ध्व- केशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठ- बिम्बमनलज्वालोग्र- नेत्रत्रयम्। रक्ताकोरक- रक्तमाल्यरुचिरं रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। जङ्घालम्बितकिङ्किणी- मणिगणप्रालम्बि- मालाञ्चितं दक्षान्त्रं डमरुं पिशाचमनिशं शूलं च मूलं करैः। घण्टाखेटक- पालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। नागेन्द्रावृतमूर्ध्निज- स्थितगलश्रीहस्त- पादाम्बुजं श्रीमद्दोःकटिकुक्षि- पार्श्वमभितो नागोपवीतावृतम्। लूतावृश्चिक- राजराजितमहा- हाराङ्कितोरःस्स्थलं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि प्राणिनां पाशान्ये क्षुरिकास्त्रपाश- दलितग्रन्थिं…

गिरीश स्तुति

|| गिरीश स्तुति || शिवशर्वमपार- कृपाजलधिं श्रुतिगम्यमुमादयितं मुदितम्। सुखदं च धराधरमादिभवं भज रे गिरिशं भज रे गिरिशम्। जननायकमेक- मभीष्टहृदं जगदीशमजं मुनिचित्तचरम्। जगदेकसुमङ्गल- रूपशिवं भज रे गिरिशं भज रे गिरिशम्। जटिनं ग्रहतारकवृन्दपतिं दशबाहुयुतं सितनीलगलम्। नटराजमुदार- हृदन्तरसं भज रे गिरिशं भज रे गिरिशम्। विजयं वरदं च गभीररवं सुरसाधुनिषेवित- सर्वगतिम्। च्युतपापफलं कृतपुण्यशतं भज रे गिरिशं भज रे गिरिशम्।…

शिव पंचरत्न स्तोत्र

|| शिव पंचरत्न स्तोत्र || मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजं भक्तचिन्तितसिद्धि- दानविचक्षणं कमलेक्षणम्। भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितं कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्। वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरै- र्मुक्तिकामिभिराश्रितै- र्मुनिभिर्दृढामलभक्तिभिः। मुक्तिदं निजपादपङ्कज- सक्तमानसयोगिनां कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्। कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै यक्षराक्षसमर्त्यकिन्नर- देवपन्नगवन्दितम्। रक्तभुग्गणनाथहृद्भ्रम- राञ्चिताङ्घ्रिसरोरुहं कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्। नक्तनाथकलाधरं नगजापयोधरनीरजा- लिप्तचन्दनपङ्ककुङ्कुम- पङ्किलामलविग्रहम्। शक्तिमन्तमशेष- सृष्टिविधायकं सकलप्रभुं कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्। रक्तनीरजतुल्यपादप- योजसन्मणिनूपुरं पत्तनत्रयदेहपाटन- पङ्कजाक्षशिलीमुखम्। वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकं कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्। यः…

पुरुषोत्तम मास माहात्म्य कथा

|| पुरुषोत्तम मास माहात्म्य कथा || पुराणों में अधिकमास, जिसे मलमास भी कहा जाता है, के पुरुषोत्तम मास बनने की एक बेहद रोचक कथा है। इस कथा के अनुसार बारह महीनों के अलग-अलग स्वामी हैं, लेकिन स्वामीविहीन होने के कारण अधिकमास को मलमास कहा जाने लगा, जिससे उसकी निंदा होने लगी। इस बात से दु:खी…

Join WhatsApp Channel Download App