गिरीश स्तोत्रम्
|| गिरीश स्तोत्रम् || शिरोगाङ्गवासं जटाजूटभासं मनोजादिनाशं सदादिग्विकासम् । हरं चाम्बिकेशं शिवेशं महेशं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ सदाविघ्नदारं गले नागहारं मनोजप्रहारं तनौभस्मभारम् । महापापहारं प्रभुं कान्तिधारं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ शिवं विश्वनाथं प्रभुं भूतनाथं सुरेशादिनाथं जगन्नाथनाथम् । रतीनाथनाशङ्करन्देवनाथं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ धनेशादितोषं सदाशत्रुकोषं महामोहशोषं जनान्नित्यपोषम् । महालोभरोषं शिवानित्यजोषं शिवं चन्द्रभालं गिरीशं…