|| महादेवाष्टकम् ||
श्रीगणेशाय नमः ॥
शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं
महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ।
गिरीशं गौरीशं भवभयहरं निष्कलमजं
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ १॥
सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय-
मुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् ।
त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ २॥
चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं
धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् ।
करोटीखट्वाङ्गे ह्यरसि च दधानं मृतिहरं
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ३॥
सदोत्साहं गङ्गाधरमचलमानन्दकरणं
पुरारातिं भातं रतिपतिहरं दीप्तवदनम् ।
जटाजूटैर्जुष्टं रसमुखगणेशानपितरं
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ४॥
वसन्तं कैलासे सुरमुनिसभायां हि नितरां
ब्रुवाणं सद्धर्मं निखिलमनुजानन्दजनकम् ।
महेशानी साक्षात्सनकमुनिदेवर्षिसहिता
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ५॥
शिवां स्वे वामाङ्गे गुहगणपतिं दक्षिणभुजे
गले कालं व्यालं जलधिगरलं कण्ठविवरे ।
ललाटे श्वेतेन्दुं जगदपि दधानं च जठरे
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ६॥
सुराणां दैत्यानां बहुलमनुजानां बहुविधं
तपःकुर्वाणानां झटिति फलदातारमखिलम् ।
सुरेशं विद्येशं जलनिधिसुताकान्तहृदयं
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ७॥
वसानं वैयाघ्रीं मृदुलललितां कृत्तिमजरां
वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मवपुषम् ।
अतर्क्यं निर्मायं तदपि फलदं भक्तसुखदं
महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ८॥
इदं स्तोत्रं शम्भोर्दुरितदलनं धान्यधनदं
हृदि ध्यात्वा शम्भुं तदनु रघुनाथेन रचितम् ।
नरः सायम्प्रातः पठति नियतं तस्य विपदः
क्षयं यान्ति स्वर्गं व्रजति सहसा सोऽपि मुदितः ॥ ९॥
इति पण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं समाप्तम् ।
Found a Mistake or Error? Report it Now