Shiva

कुलेश्वरपाण्ड्यकृता महादेवस्तुतिः

Mahadevastutihkuleshvarapandya Sanskrit

Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| कुलेश्वरपाण्ड्यकृता महादेवस्तुतिः ||

कुलेश्वरः
महानीपारण्यान्तरकनकपद्माकरतटी
महेन्द्रानीताष्टद्विपधृतविमानोदवसितम् ।
महालीलाभूतिप्रकटितविशिष्टात्मविभवं
महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १॥

महामातङ्गासृग्धरवसनमद्रीन्द्रतनया
महाभाग्यं मत्तान्धककरटिकण्ठीरववरम् ।
महाभोगीन्द्रोद्यत्फणमणिगणालङ्कृततनुं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ २॥

महादुग्धाम्भोधौ मथन जव सम्भूतमसितं
महाहालं कण्ठे सकलभयभङ्गाय दधतम् ।
महाकारुण्याब्धिं मधुमथनदृग्दूरचरणं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ ३॥

नमन्नालीकाम्बुजभवशुनासीरमकुटी
लसन्माणिक्यांशुस्फुरदरुणपादाब्जयुगलम् ।
अमन्दानन्दाब्धिं हरिनयनपद्मार्चितपदं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ ४॥

समीराहारेन्द्राङ्गदमखिललोकैकजनकं
समीराहारात्मप्रवणजनहृत्पद्मनिलयम् ।
सुमीनाक्षीवक्त्राम्बुजतरुणसूर्यं सुमनसं
महादेवं वन्दे मधुरशफराक्षी सहचरम् ॥ ५॥

नताघौधारण्यानलमनिलभुङ्नाथवलयं
सुधांशोरर्धाशं शिरसि दधतं जह्नुसुतया ।
वदान्यानामाद्यं वरविबुधवन्द्यं वरगुणं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ ६॥

दशास्याहङ्कारद्रुमकुलिशिताङ्गुष्ठनखरं
निशानाथश्रीजिन्निजवदनबिम्बं निरवधिम् ।
विशालाक्षं विश्वप्रभवभरणापायकरणं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ ७॥

अनाकारं हारीकृतभुजगराजं पुरहरं
सनाथं शर्वाण्या सरसिरुहपत्रायतदृशम् ।
दिनारम्भादित्यायुतशतनिभानन्दवपुषं
महादेवं वन्दे मधुरशफराक्षी सहचरम् ॥ ८॥

उमापीनोत्तुङ्गस्तनतटलसत्कुङ्कुमरजस्
समाहारात्यन्तारुणविपुलदोरन्तरतलम् ।
रमावाणीन्द्राणीरतिविरचिताराधनविधिं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ ९॥

धरापाथस्स्वाहासहचरजगत्प्राणशशभृत्
सुराध्वाहर्नाथाध्वरकरशरीरं शशिधरम् ।
सुराहारास्वादातिशयिनिजवाचं सुखकरं
महादेवं वन्दे मधुरशफराक्षी सहचरम् ॥ १०॥

धरापीठं धाराधरकलशमाकाशवपुषं
धराभृद्दोर्दण्डं तपनशशिवैश्वानरदृशम् ।
विराजन्नक्षत्रप्रसवमुदरीभूतजलधिं
महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ ११॥

सुपर्णाकाङ्काम्भोजासनदृगतिदूराङ्घ्रिशिरसं
सुपर्णाहारस्रक्सुरविटपि शाखायतभुजम् ।
अपर्णापादाब्जातिचलित चन्द्रार्द्धमकुटं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ १२॥

मखारातिं मन्दस्मितमधुरबिम्बाधरलसन्
मुखाम्भोजं मुग्धामृतकिरणचूडामणिधरम् ।
नखाकृष्टेभत्वक्परिवृतशरीरं पशुपतिं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ १३॥

सहस्राब्जैकोने निजनयनमुद्धृत्य यजते
सहस्राख्यापूर्त्यै सरसिजदृशे येन कृपया ।
सहस्रारं दत्तं तपननियुताभं रथपदं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ १४॥

रथावन्याम्नायाश्वमजरथकारं रणपटुं
रथाङ्गादित्येन्दुं रथपदधरास्रं रथिवरम् ।
रथाधारेष्वासं रथधरगुणं रम्यफलदं
महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ १५॥

धराकर्षापास्त प्रचुरभुजकण्डूयनजल
न्धराहार्यद्वैधीकरणहृत लोकत्रयभयम् ।
स्मराकाराहाराकलनपटुफालानलकणं
महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १६॥

अगस्त्यः-
इदं सुन्दरनाथस्य स्तोत्रं भक्त्या पठन्ति ये ।
श्रिया परमया युक्ताः शिवमन्ते भजन्ति ते ॥ १७॥

सुन्दरेश्वरमीशानं सुमीनाक्षीसुनायकम् ।
कुलेश्वरमहीपाल इति स्तोत्रैरतोषयत् ॥ १८॥

अथ वाचाऽशरीरिण्या शङ्करस्सुन्दरेश्वरः ।
स्तोत्रप्रियः प्रियादाह भूपतिं पुरतः स्थितम् ॥ १९॥

इति कुलेशपाण्ड्यकृता स्तुतिः समाप्ता ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download कुलेश्वरपाण्ड्यकृता महादेवस्तुतिः PDF

कुलेश्वरपाण्ड्यकृता महादेवस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App