|| मालावतिकृतं श्रीकृष्णस्तोत्रम् ||
मालावत्युवाच ।
वन्दे तं परमात्मानं सर्वकारणकारणम् ।
विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ ९॥
निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु ।
विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ॥ १०॥
येन सृष्टा च प्रकृतिः सर्वाधारा परात्परा ।
ब्रह्मविष्णुशिवादीनां प्रसूर्या त्रिगुणात्मिका ॥ ११॥
जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया ।
पाता विष्णुश्च जगतां संहर्त्ता शङ्करः स्वयम् ॥ १२॥
ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा ।
सिद्धाश्च योगिनः सन्तः सन्ततं प्रकृतेः परम् ॥ १३॥
साकारं च निराकारं परं स्वेच्छामयं विभुम् ।
वरं वरेण्यं वरदं वरार्हं वरकारणम् ॥ १४॥
तपःफलं तपोबीजं तपसां च फलप्रदम् ।
स्वयन्तपःस्वरूपं च सर्वरूपं च सर्वतः ॥ १५॥
सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम् ।
तेषां च फलदातारं तद्बीजं क्षयकारणम् ॥ १६॥
स्वयन्तेजःस्वरूपं च भक्तानुग्रहविग्रहम् ।
सेवाध्यानं न घटते भक्तानां विग्रहं विना ॥ १७॥
तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम् ।
अतीव कमनीयं च रूपं तत्र मनोहरम् ॥ १८॥
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ॥ १९॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ २०॥
द्विभुजं मुरलीहस्तं पीतकौशेयवाससम् ।
किशोरवयसं शान्तं राधाकान्तमनन्तकम् ॥ २१॥
गोपाङ्गनापरिवृतं कुत्रचिन्निर्जने वने ।
कुत्रचिद्रासमध्यस्थं राधया परिषेवितम् ॥ २२॥
कुत्रचिद्गोपवेषं च वेष्टितं गोपबालकैः ।
शतशृङ्गाचलोत्कृष्टे रम्ये वृन्दावने वने ॥ २३॥
निकरं कामधेनूनां रक्षन्तं शिशुरूपिणम् ।
गोलोके विरजातीरे पारिजातवने वने ॥ २४॥
वेणुं क्वणन्तं मधुरं गोपीसम्मोहकारणम् ।
निरामये च वैकुण्ठे कुत्रचिच्च चतुर्भुजम् ॥ २५॥
लक्ष्मीकान्तं पार्षदैश्च सेवितं च चतुर्भुजैः ।
कुत्रचित्स्वांशरूपेण जगतां पालनाय च ॥ २६॥
श्वेतद्वीपे विष्णुरूपं पद्मया परिषेवितम् ।
कुत्रचित्स्वांशकलया ब्रह्माण्डब्रह्मरूपिणम् ॥ २७॥
शिवस्वरूपं शिवदं स्वांशेन शिवरूपिणम् ।
स्वात्मनः षोडशांशेन सर्वाधारं परात्परम् ॥ २८॥
स्वयं महद्विराड्रूपं विश्वौघं यस्य लोमसु ।
लीलया स्वांशकलया जगतां पालनाय च ॥ २९॥
नानावतारं बिभ्रन्तं बीजं तेषां सनातनम् ।
वसन्तं कुत्रचित्सन्तं योगिनां हृदये सताम् ॥ ३०॥
प्राणरूपं प्राणिनां च परमात्मानमीश्वरम् ।
तं च स्तोतुमशक्ताऽहमबला निर्गुणं विभुम् ॥ ३१॥
निर्लक्ष्यं च निरीहं च सारं वाङ्मनसोः परम् ।
यं स्तोतुमक्षमोऽनन्तः सहस्रवदनेन च ॥ ३२॥
पञ्चवक्त्रश्चतुर्वक्त्रो गजवक्त्रः षडाननः ।
यं स्तोतुं न क्षमा माया मोहिता यस्य मायया ॥ ३३॥
यं स्तोतुं न क्षमा श्रीश्च जडीभूता सरस्वती ।
वेदा न शक्ता यं स्तोतुं को वा विद्वांश्च वेदवित् ॥ ३४॥
किं स्तौमि तमनीहं च शोकार्त्ता स्त्री परात्परम् ।
इत्युक्त्वा सा च गान्धर्वी विरराम रुरोद च ॥ ३५॥
इति ब्रह्मवैवर्तपुराणे ब्रह्मखण्डे अष्टादशाध्यायान्तर्गतं
मालावतिकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
Found a Mistake or Error? Report it Now