Misc

मृत्युञ्जयगर्भितस्तोत्रम्

Mrrityunjayagarbhitastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| मृत्युञ्जयगर्भितस्तोत्रम् ||

वाण्या ओङ्काररूपिण्या अन्त उक्तोऽस्य नान्यथा ।
सुरस्त्रिभुवनेशः स नस्सर्वान्तःस्थितोऽवतु ॥ १॥

देवो यं सर्व देवाद्यः सूरिरुन्मत्तवत्स्थितः ।
वाहो बलीवर्दकोऽस्य याचकस्येष्टदः स तु ॥ २॥

नन्दिस्कन्धाधिरूढोऽपि त्रिप्रमित्यतिगः स्वभूः ।
दशा यस्य न शम्भुं तं सन्तं वन्देऽखिलात्मकम् ॥ ३॥

सद्योजातोऽष्टमूर्तिः स भूतबन्दिस्तुतोऽजितः ।
रक्ष मन्मथहन्नाथ तोकधर्माणमद्य माम् ॥ ४॥

स्वतोऽहेतोजगद्धेतो दयानाथाम्बिकापते ।
तीव्रा सुहृत्त्रिविधहृत्तापान्मृत्योश्च मामव ॥ ५॥

कृतागसमपि त्राह्रत्रेर्मृत्योस्त्वं भिषक्तमः ।
तत्सन्धिं भिन्धि सर्वाकयोनेर्मुञ्चस्व मां शिवः ॥ ६॥

श्रीद पुष्टिद ते व्याप्तं दिक्षु क्षीरनिभं यशः ।
रुङ्मार्ष्टिकृद्रक्ष मां त्वं गङ्गा यन्मूर्ध्नि चर्क्षराट् ॥ ७॥

द्रष्ट वससि सर्वत्र बत मां ईक्षसे न किम् ।
स्तुतेर्धर्मेश शक्तिर्निरस्तमृत्यो न मेऽज ते ॥ ८॥

तिष्ठानन्दद चित्ते मे समन्तात्परिपालय ॥ ९॥

मन्त्राद्याक्षरसहित
ॐ त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥

वाण्या ॐ काररूपिण्या अन्त उ क्तोऽस्य नान्यथा ।
सुरस् त्रि भुवनेशः स नस्स र्वा न्तः स्थितोऽवतु ॥ १॥

देवो यं सर्व देवाद्यः सूरि रु न्मत्तवत्स्थितः ।
वाहो ब्ल आईवर्दकोऽस्य याच क स्येष्टदः स तु ॥ २॥

नन्दिस् कं धाधिरूढोऽपि त्रिप्र मि त्यतिगः स्वभूः ।
दशा य स्य न शम्भुं तं सन्तं व न्देऽखिलात्मकम् ॥ ३॥

सद्यो जा तोऽष्टमूर्तिः स भूत बं दिस्तुतोऽजितः ।
रक्ष म न्मथहन्नाथ तोक ध र्माणमद्य माम् ॥ ४॥

स्वतोऽ हे तोजगद्धेतो दया ना थाम्बिकापते ।
तीव्रा सु हृत्त्रिविधहृत्तापा न्मृ त्योश्च मामव ॥ ५॥

कृता ग समपित्राह्रत्रेर्मृ त्यो स्त्वं भिषक्तमः ।
तत्सिन्धि भिन्धि सर्वाकयोने र्मु ञ्चस्व मां शिवः ॥ ६॥

श्रीद पु ष्टिद ते व्याप्तं दिक्षु क्षी रनिभं यशः ।
रुङ्मार् ष्टि कृद्रक्ष मां त्वं गङ्गा य न्मूर्ध्नि चर्क्षराट् ॥ ७॥

द्रष्ट व ससि सर्वत्र बत मां ईक्षसे न किम् ।
स्तुते र्ध र्मेश शक्तिर्निरस्त मृ त्यो न मेऽज ते ॥ ८॥

तिष्ठा नं दद चित्ते मे समं तात् परिपालय ॥ ९॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं
मृत्यञ्जयमन्त्रगर्भितस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download मृत्युञ्जयगर्भितस्तोत्रम् PDF

मृत्युञ्जयगर्भितस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App