Misc

मृत्युरक्षाकारकं कवचम्

Mrrityurakshakarakakavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| मृत्युरक्षाकारकं कवचम् ||

श्रीदेव्युवाच
भगवन् देवदेवेश देवताभिः प्रपूजितः ।
सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ १॥

मृत्युरक्षाकरं देव सर्वाशुभविनाशनम् ।
कथयस्वाद्य मे नाथ यदि स्नेहोऽस्ति मां प्रति ॥ २॥

श्रीश्वर उवाच –
अस्य मृत्युञ्जयमन्त्रस्य वामदेव ऋषिः, गायत्रीच्छन्दः,
मृत्युञ्जयो देवता, साधकाभीष्टसिद्ध्यर्थे जपे विनियोगः
शिरो मे सर्वदा पातु मृत्युञ्जयसदाशिवः ।
सत्र्यक्षरस्वरूपो मे वदनं च महेश्वरः ॥ ३॥

पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिबीजात्मा ह्यायू रक्षतु मे सदा ॥ ४॥

बिल्ववृक्षसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मे सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ५॥

द्वाविंशत्यक्षरो रुद्रः कुक्षौ मे परिरक्षतु ।
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ६॥

चिन्तामणिर्बीजपूरे ह्यर्द्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७॥

सत्र्यक्षरस्वरूपात्मा कूटरूपी महेश्वरः ।
मार्तण्ड भैरवो नित्यं पादौ मे परिरक्षतु ॥ ८॥

ॐ जूं सः महाबीजस्वरूपस्त्रिपुरान्तकः ।
ऊर्ध्वमूर्द्धनि चेशानो मम रक्षतु सर्वदा ॥ ९॥

दक्षिणस्यां महादेवो रक्षेन्मे गिरिनायकः ।
अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु ॥ १०॥

वामदेवः पश्चिमस्यां सदा मे परिरक्षतु ।
उत्तरस्यां सदा पातु सद्योजातस्वरूपधृक् ॥ ११॥

इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ।
प्रातर्मध्याह्नकाले तु यः पठेच्छिवसन्निधौ ॥ १२॥

सोऽभीष्टफलमाप्नोति कवचस्य प्रसादतः ।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ १३॥

सर्वसिद्धिकरं पुण्यं सर्वारिष्टविनाशनम् ।
योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः ॥ १४॥

न तस्य हिंसां कुर्वन्ति पुत्रवत्या लयन्ति ते ।
पठित्वाऽभ्यर्चयेद्देवि यथाविधिपुरःसरम् ॥ १५॥

लक्षञ्च मूलमन्त्रस्य पुरश्चरणमुच्यते ।
तद्धारणे महादेवि मृत्युरोगविनाशनम् ॥ १६॥

एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् ।
इति ज्ञातं महादेवि तस्य वक्त्रे स्थितं सदा ॥ १७॥

कवचस्य प्रसादेन मृत्युमुक्तो भवेन्नरः ।
अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे ॥ १८॥

तव स्नेहान्महादेवि कथितं कवचं शुभम् ।
न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥ १९॥

इति श्रीकियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मृत्युरक्षाकारकं कवचं समाप्तम् ।
अथैओनविंशः पटलः

Found a Mistake or Error? Report it Now

Download मृत्युरक्षाकारकं कवचम् PDF

मृत्युरक्षाकारकं कवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App