Misc

मुक्तिचिन्तामणि गायत्रीकवचम्

Muktichintamanigayatrikavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| मुक्तिचिन्तामणि गायत्रीकवचम् ||

श्रीदेव्युवाच
भगवन् सर्वलोकेश, वेदतत्त्वाधिसागर ।
सर्वज्ञ भैरवेशान, जगन्नाथ कृपानिधे ॥ १॥

कवचं देव गायत्र्याः, सर्वतत्त्वमयं परम् ।
मुक्तिचिन्तामणिं नाम, त्वया मे प्राङ्निवेदितम् ॥ २॥

मन्त्रगर्भं सुरैः पूज्यं, सर्वापत्तारणं विभो! ।
ब्रह्मवेधमयं ब्रूहि, यद्यहं तव वल्लभा ॥ ३॥

श्रीभैरव उवाच —
श‍ृणु देवि ! प्रवक्ष्यामि, तव स्नेहाद् रहस्यकम् ।
कवचं तत्त्वभूतं ते, सर्वमन्त्रैक-विग्रहम् ॥ ४॥

मुक्तिचिन्तामणिं नाम, गायत्रीमन्त्र-विग्रहम् ।
मातृकाबीजनिलयं, व्याहृतिब्रह्मसम्मितम् ॥ ५॥

सर्वशक्तिमयं देवि ! सर्वारिष्टविमर्दनम् ।
महापातकविघ्नौघ-ब्रह्महत्यादिनाशनम् ॥ ६॥

विनियोगः-
ॐ अस्य श्रीकवचस्यापि, ऋषिः प्रोक्तः सदाशिवः ।
गायत्रीदेवता देवि, बीजं प्रणव ईरितः ॥ ७॥

लक्ष्मीशक्तिः शिवा भीमा कीलकं समुदाहृतम् ।
धर्मार्थकाममोक्षार्थे, विनियोगस्तु धारणे ॥ ८॥

एवं विनियुज्य-
ॐ अं शिरो मेऽवताद्देवी, गायत्री परमार्थदा ।
ॐ आं सौः मेऽवताद्देवी भालं वेदार्थसुन्दरी ॥ १॥

ॐ इं हसौः भ्रुवौ पातु, मम तन्त्रार्थसुन्दरी ।
ॐ ईं सौः नयने पातु मम व्याहृतिसुन्दरी ॥ २॥

ॐ उं ऐं मेऽवतात् कर्णौ, सदा भूर्लोकसुन्दरी ।
ॐ ऊं क्लीं मेऽवताद् गण्डौ श्रीभुवोलोकसुन्दरी ॥ ३॥

ॐ ऋं श्रीं मेऽवताद् नासां सा स्वर्लोकैकसुन्दरी ।
ॐ ऋं ह्रीं मेऽवतादोष्ठौ महर्लोकैकसुन्दरी ॥ ४॥

ॐ लृं क्लीं मेऽवताद्दन्ताञ्जनलोकैकसुन्दरी ।
ॐ लृं ग्लौं मेऽवताज्जिह्वां तपोलोकैकसुन्दरी ॥ ५॥

ॐ एं गां पातु मे वक्त्रं सत्यलोकैकसुन्दरी ।
ॐ ऐं यं पातु मे कण्ठं सदाभुवनसुन्दरी ॥ ६॥

ॐ ॐ त्रीं पातु मे स्कन्धौ, सदा ब्रह्माण्डसुन्दरी ।
ॐ औं श्रीं पातु मे बाहू सदा सर्वाङ्गसुन्दरी ॥ ७॥

ॐ अं श्रीं पातु मे हस्तौ, सदा सर्वार्थसुन्दरी ।
ॐ अः ह्रीं पातु मे वक्षः सदा देवेन्द्रसुन्दरी ॥ ८॥

ॐ कं श्रीं पातु मे पृष्ठं, सदा दानवसुन्दरी ।
ॐ खं श्रीं पातु मे पार्श्वौः श्रीविद्याधरसुन्दरी ॥ ९॥

ॐ गं ह्रीं पातु मे कुक्षी, अप्सरोलोकसुन्दरी ।
ॐ घं ऐं पातु मे नाभिं यक्षलोकैकसुन्दरी ॥ १०॥

ॐ ङ प्रिं मेऽवतान्मेढ्रं, रक्षोलोकैकसुन्दरी ।
ॐ चं स्त्रीं मेऽवताच्छिश्नं सदा गन्धर्वसुन्दरी ॥ ११॥

ॐ छं हां पातु मे ऊरू, सदा गुह्यकसुन्दरी ।
ॐ जं स्वा पातु मे जानू सिद्धलोकैकसुन्दरी ॥ १२॥

ॐ झं ह्रीं पातु मे तत्र पृथुलं मांस-सञ्चयम् ।
ॐ ञं ऐं पातु मे तत्र दृढमस्थिचयं सदा ॥ १३॥

ॐ टं स्त्रीं पातु मे जङ्घे भूतलोकैकसुन्दरी ।
ॐ ठं प्रिं पातु मे गुल्फो नागलोकैकसुन्दरी ॥ १४॥

ॐ डं ऐं पातु मे पादौ मर्त्यलोकैकसुन्दरी ।
विस्मारितं च तत्स्थानं यत्स्थानं नामवर्जितम् ॥ १५॥

ॐ ढं ह्रीं पातु तत्सर्वं वपुस्त्रिपुरसुन्दरी ।
ॐ णं ह्रीं पूर्व इन्द्रोऽव्यात् ॐ तं श्रीं अग्निरग्रतः ॥ १६॥

ॐ थं ह्रीं दक्षिणे धर्मो, ॐ दं श्रीं नैऋत्यां स्वतः ।
ॐ धं श्रीं श्री वरुणः पातु पश्चिमे मां जलेश्वरः ॥ १७॥

ॐ नं श्रीं वायुतो वायुर्वायव्वे मां सदाऽवतु ।
ॐ पं श्रीं मामुदरे पातु कुबेरोयक्षराट् सदा ॥ १८॥

ॐ फं यं मामीश्वरः पातु स्वयमीशाननायकः ।
ॐ बं गां ऊर्ध्वमात्मभूर्भगवान् सर्वदाऽवतु ॥ १९॥

ॐ भं ग्लौं पातु मां विष्णुरधस्तात् सर्वदा हरिः ।
ॐ मं भै मे गुरुः प्रातः ॐ यं श्रीं मां मध्यवासरे ॥ २०॥

ॐ रं ह्रीं मेऽवतात् सायं परात्पर-गुरुस्तथा ।
ॐ लं क्लीं मां निशीथेऽव्यात् परमेष्ठि गुरुः सदा ॥ २१॥

ॐ वं ऐं मां निशीथान्ते पातु साधक-नायकी ।
ॐ शं श्रीं मां भगवती ब्रह्मरूपा दिनेऽवतु ॥ २२॥

ॐ षं ह्रीं मां जगन्माता विष्णुरूपा सदाऽवतु ।
ॐ सं ऐं मां वेदमाता शिवरूपा सदाऽवतु ॥ २३॥

ॐ ह्रं श्रीं मां चक्रतः पातु गायत्री चक्रनायकी ।
ॐ (मूलं) लं क्ष रूपं मां पायात् सदा सद्ब्रह्मनायकी ॥ २४॥

लक्ष्मीर्लक्ष्मीं सदा पातु, कीर्तिं कीर्तिः सदाऽवतु ।
धृतिं-धैर्यं सदा पातु धन्या भाग्यं ममाऽवतु ॥ २५॥

स्थितं स्थिता सदा पातु, शान्तिः शान्तिं प्रयच्छतु ।
विभा दीप्तिं सदा पातु मतिर्बुद्धिं ममाऽवतु ॥ २६॥

गतिर्गतिं च मे पातु, भ्रान्तिर्भ्रान्तिं सदाऽवतु ।
नतिर्नतिं च मे पातु वाणी वाणीं प्रयच्छतु ॥ २७॥

सेना सेनाधिपत्यं मे, शोभा शोभां प्रयच्छतु ।
क्रियादेवी क्रियासिद्धिं नुतिर्नुतिं प्रयच्छतु ॥ २८॥

एताः षोडशपत्रस्थाः, पान्तु मां सर्वतोभयात् ।
ब्राह्मी पूर्वदले पातु वह्नौ नारायणी तथा ॥ २९॥

दक्षिणे पातु मां चण्डी, नैऋते शाम्भवी तथा ।
पश्चिमेऽपराजिताऽव्यात्कौमारीवायुकोणतः ॥ ३०॥

वाराही चोत्तरे पातु, ईशाने नारसिंहिका ।
रुरुः सङ्ग्रामतः पातु चण्डो भूपभयात् सदा ॥ ३१॥

करालोऽव्यात् श्मशाने-मां संहारोऽव्यात् समुद्रतः ।
भीषणः पातु दुर्भिक्षात् कालाग्निः कालपाशतः ॥ ३२॥

उन्मत्तः पातु मां चौरात् क्रोधोऽव्यान्मां विपत्तितः ।
एते सशक्तिकाः पान्तु वसुपत्रेषु भैरवाः ॥ ३३॥

सरस्वती गिरं पातु, सती सत्यं सदाऽवतु ।
दुर्गा दुर्गतितो रक्षेत् सावित्री वसु रक्षतु ॥ ३४॥

श्रीब्रह्मवादिनी ज्ञानं श्रीमतीं श्रियमुत्तमाम् ।
कुब्जिका च कुलं क्षिप्रं पाशं संसारबन्धनात् ॥ ३५॥

तारिणी चारितो रक्षेद् ध्रुवं मां विश्वमङ्गला ।
बहिर्दशार-चक्रस्था पातु मां सर्वतः सदा ॥ ३६॥

त्रिपुरा पातु मां नित्यं, कालिकाऽवतु मां सदा ।
तारा मां पातु सततं सखी च सर्वदाऽवतु ॥ ३७॥

बगला पातु मां नित्यं, बाला मां पातु सर्वतः ।
बैखरी पातु मां नित्यं, देवी तुर्या सदाऽवतु ।
छिन्नशीर्षावतान्नित्यं, पातु मां भुवनेश्वरी ।
अन्तर्दशारचक्रस्था देवता पातु मां सदा ॥ ३९॥

गङ्गा मां पावनं पातु, यमुना पातु सर्वदा ।
सरस्वती च मां पातु त्रिकोणस्थाश्च देवताः ॥ ४०॥

मूलविद्या च मां पातु, गायत्री त्रिपदास्तवा ।
चतुर्मुखः शिवः पातु पातु पद्मासनः प्रभुः ॥ ४१॥

अक्षसूत्रं च मां पातु, पद्मं पातु शिवप्रियः ।
त्रिशूलं सर्वदा पातु लगुडं पातु सर्वदा ॥ ४२॥

मूलं च सर्वदा पातु चतुर्विंशाक्षरात्मकम् ।
सर्वत्र सर्वदा पातु परमार्थाधिदेवता ॥ ४३॥

इति मन्त्रमयं दिव्यं कवचं देव-दुर्लभम् ।
गायत्र्यास्त्रिपदा देव्या लयाङ्गनिलयं परम् ॥ ४४॥

मूलविद्यामयं ब्रह्म, विद्यानिधिमयं परम् ।
सर्वदेवप्रियं मुक्तेः साधनं भुक्ति-वर्धनम् ॥ ४५॥

मुक्ति-चिन्तामणिर्नाम गायत्री-तत्त्वकारिणी ।
मारणं सर्व-शत्रूणां वारणं सकलापदाम् ॥ ४६॥

तारणं च भवाम्भोधेः सर्वैश्वर्यैककारणम् ।
र वौ यो ह्यष्टगन्धेन लिखेद् भूर्जे महेश्वरि ! ॥ ४७॥

श्वेतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् ।
पञ्चगव्येन संशोध्य गायत्रीरूपेण स्मरेत् ॥ ४८॥

तामर्चयेन्महादेवि ! विद्यया यन्त्रराजवत् ।
मकारैः पञ्चभिर्गोप्यर्महार्चनक्रमेश्वरः ॥ ४९॥

यथार्थतस्तत् सम्पूज्य गुटिं भोगापवर्गदाम् ।
बध्नीयात् कण्ठदेशे तु सर्वसिद्धिः प्रजायते ॥ ५०॥

शिरःस्था गुटिका देवि राजलोक-वशङ्करी ।
भूतस्था गुटिका देवि ! रणे विजयदायिनी ॥ ५१॥

कुक्षिस्था रोगशमनी, वक्षःस्था पुत्र-पौत्रदा ।
कण्ठस्थैश्वर्यदा लोके सर्व-सारस्वत-प्रदा ॥ ५२॥

इत्येवं कवचं देवि! गायत्रीतत्त्वमुत्तमम् ।
गुह्यं गोप्यतमं देवि! गोपनीयं स्वयोनिवत् ॥ ५३॥

यह कवच अनेक महत्त्वपूर्ण तत्त्वों से परिपूर्ण है । इसमें समस्त
शरीरावयवों की रक्षा के लिए गायत्री स्वरूप में ही व्याप्त महादेवियों
और प्रमुख देवों के स्मरण के साथ-साथ बहुत-से बीज-मन्त्रों
का योग करके रक्षा की प्रार्थना की गई है । वस्तुतः साधना में आने
वाले बाह्य- विघ्नों और आन्तरिक आपदाओं से बचने के लिए यह अभेद्य
मणिमय कवच है ।

इसका पुरश्चरण अथवा प्रमुख पर्व, ग्रहणादि के समय पाठ करके
इसे अष्टगन्ध से भूर्जपत्र पर लिखे और श्वेत कच्चे सूत से उसे
लपेट कर सोने के ताबीज में रखे । तदनन्तर पञ्चगव्य से स्नान
कराये और साक्षात् गायत्री माता का स्वरूप मानकर उसकी यन्त्रार्चना
के समान ही अर्चना करे । तदनन्तर शरीर के अवयव-कण्ठ,
भुजा, कटि आदि में धारण करे तो उसे ऐश्वर्य, सारस्वत ज्ञान,
पुत्र-पौत्र और दीर्घायु प्राप्त होते हैं ।

इति श्रीरुद्रयामले तन्त्रे मुक्तिचिन्तामणि गायत्रीकवचं समाप्तम् ।

Found a Mistake or Error? Report it Now

Download मुक्तिचिन्तामणि गायत्रीकवचम् PDF

मुक्तिचिन्तामणि गायत्रीकवचम् PDF
Join WhatsApp Channel Download App