Download HinduNidhi App
Misc

मुरुकाष्टकम्

Murukashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत
Share This

|| मुरुकाष्टकम् ||

ॐ श्री गणेशाय नमः

मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः ।
वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥

मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो ।
देवदेव महासेन पाहि पाहि सदा विभो ॥

मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् ।
मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥

मुरुकेण मुकुन्देन मुनीनां हार्दवासिना ।
वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥

मुरुकाय नमः प्रातः मुरुकाय नमो निशि ।
मुरुकाय नमः सायं मुरुकाय नमो नमः ॥

मुरुकात्परमात्सत्याद्गाङ्गेयाच्छिखिवाहनात् ।
गुहात्परं न जानेऽहं तत्त्वं किमपि सर्वदा ॥

मुरुकस्य महेशस्य वल्लीसेनापतेः प्रभोः ।
चिदम्बरविलासस्य चरणौ सर्वदा भजे ॥

मुरुके देवसेनेशे शिखिवाहे द्विषड्भुजे ।
कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥

इति मुरुकाष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download मुरुकाष्टकम् PDF

मुरुकाष्टकम् PDF

Leave a Comment