Misc

नाग कवचम्

Naag Kavacham Sanskrit Lyrics

Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नाग कवचम् (Naag Kavacham PDF) ||

नागराजस्य देवस्य कवचं सर्वकामदम् ।
ऋषिरस्य महादेवो गायत्री छन्द ईरितः ॥

ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः ।
देवता नागराजस्तु फणामणिविराजितः ॥

सर्वकामार्थ सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा ॥

कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् ।
वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः ॥

उदरं धृतराष्ट्रश्च वज्रनागस्तु पृष्ठकम् ।
मर्माङ्गमश्वसेनस्तु पादावश्वतरोऽवतु ॥

वासुकिः पातु मां प्राच्ये आग्नेयां तु धनञ्जयः ।
तक्षको दक्षिणे पातु नैरृत्यां शङ्खपालकः ॥

महापद्मः प्रतीच्यां तु वायव्यां शङ्खनीलकः ।
उत्तरे कम्बलः पातु ईशान्यां नागभैरवः ॥

ऊर्ध्वं चैरावतोऽधस्तात् नागभेतालनायकः ।
सदा सर्वत्र मां पातु नागलोकाधिनायकाः ॥

इति नाग कवचम् ।

Found a Mistake or Error? Report it Now

Download नाग कवचम् PDF

नाग कवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App