Misc

नाग शान्ति स्तोत्रम्

Nagashanti Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नाग शान्ति स्तोत्रम् (Nagashanti Stotram PDF) ||

श्री गणेशाय नमः ।

श्री हाटकेश्वराय नमः ।

आरक्तेन शरीरेण रक्तान्तायतलोचनः।
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः॥

अनन्तो नागराजेन्द्रः शिवपादार्चने रतः।
महापापविषं हत्वा शान्तिमाशु करोतु मे॥

सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः।
चारुभोगकृताटोपो हारचारुविभूषणः॥

वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान्।
महापापं विषं हत्वा शान्तिमाशु करोतु मे॥

अतिपीतेन देहेन विस्फुरद्भोगसम्पदा।
तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः॥

नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः।
करोतु मे महाशान्तिं सर्वदोषविषावहः॥

अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः।
कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः॥

कर्कोटको महानागो विषदर्पबलाऽन्वितः।
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे॥

पद्मवर्णेन देहेन चारुपद्मायतेक्षणः।
पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः॥

ख्यातः पद्मो महानागो हरपादार्चने रतः।
करोतु मे महाशान्तिं महापापं विषक्षयम्॥

पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा।
शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा॥

महापद्मो महानागो नित्यं पशुपतौ रतः।
विनिर्धूत विषं घोरं शान्तिमाशु करोतु मे॥

श्यामेन देहभारेण श्रीमत्कमललोचनः।
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया॥

शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः।
महाविषं महापापं हत्वा शान्तिं करोतु मे॥

अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः।
दीप्तभोगकृताटोपः शुभलक्षणलक्षितः॥

कुलिको नागराजेशो नित्यं हरपरायणः।
अपहृत्य विषं घोरं करोतु मम शान्तिकम्॥

अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः।
गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः॥

पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः।
रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम्॥

नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः।
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा॥

यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि।
न तं सर्पा विहिंसन्ति न विषं क्रमते सदा॥

चिन्तितं सिध्यते नित्यं तथा पापपरिक्षयः।
सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः॥

इति नागशान्तिस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download नाग शान्ति स्तोत्रम् PDF

नाग शान्ति स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App