Misc

नामरत्नमालावलिस्तोत्रम्

Namaratnamalavalistotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नामरत्नमालावलिस्तोत्रम् ||

नत्वा श्रीवल्लभाचार्यान्नौमि श्रीविठ्ठलं प्रभुम् ।
ततः श्रीवल्लभं स्तौमि तन्नामाष्टशतोदितैः ॥ १॥

ऋषिर्निरूपितश्चात्र विठ्ठलेशात्मजासुतः ।
छन्दोऽपि च तथाऽनुष्टुब्देवता गोकुलेश्वरः ॥ २॥

महाकारुणिकाधीशो बीजं चात्र निरूप्यते ।
विनियोगो भक्तियोगे सिद्धिः स्वप्रभुसङ्गमः ॥ ३॥

श्रीवल्लभार्यरूपः श्रीमद्विठ्ठलनन्दनः ।
श्रीवल्लभः सदानन्दः सच्चिदानन्दविग्रहः ॥ ४॥

रुक्यिणीनन्दनः श्रीमान् पार्वतीप्राणवल्लभः ।
सर्वसद्गुणसम्पन्नः पुत्रविठ्ठलराययुक् ॥ ५॥

पौत्रगोवर्द्धनेशाढ्यस्तदतिप्रीतिकारकः ।
संलालितव्रजपतिर्व्रजाधीशेक्षणोत्सुकः ॥ ६॥

पुत्रपौत्रप्रपौत्रदिसमस्तकुलमोदकः ।
भूयो निजकुलाधारः सर्वस्वकुलपोषकः ॥ ७॥

निजाश्रिताखिलज्ञातिप्रीतिपूर्वकपालकः ।
याचनोचितसम्प्राप्तप्राणिमात्रप्रपोषकः ॥ ८॥

सर्वाधारो महोदारः सदानन्दप्रवाहवान् ।
सम्प्राप्तपण्डितव्रातमानपूर्वकदानकृत् ॥ ९॥

गोकुलावासकर्ता च भूयो गोवर्द्धने स्थितः ।
गोस्वामी गोकुलाधीशो गोप्रियो गोकुलेश्वरः ॥ १०॥

गोकुलानन्दकर्ता च गोकुलाधिकभूषणम् ।
गोवल्लभो गोकुलेशो गोकुलप्रीतिकारकः ॥ ११॥

आचार्यकृतसिद्धान्तग्रन्धव्याख्यानकारकः ।
पितामहपदासक्तः पितृपादाब्जभक्तिमान् ॥ १२॥

पितामहस्वरूपत्वज्ञापकैकस्वनामधृक् ।
पितृपूर्णकरूपत्वख्यापकात्मस्थषड्गुणः ॥ १३॥

अतिमानुषकर्मादिकृतिः श्रीकृष्णरूपधृक् ।
धर्मग्लानिकृताधर्मनाशनार्थावतारवान् ॥ १४॥

पाषण्डिदण्डिसम्प्रोक्तप्रचण्डाधर्मखण्डनः ।
स्वधर्मस्थापकोऽखण्डधरामण्डलमण्डनम् ॥ १५॥

योऽतिकोपितपृध्वीशाकारितस्तत्समीपगः ।
उल्लङ्घिततदीयाज्ञः सत्यसन्धो व्रजे स्थितः ॥ १६॥

आबालवृद्धतुलसीमालातिलकधारकः ।
कालिन्दीपतिरीशस्तद्विरहानुभवप्रदः ॥ १७॥

क्ष्मेशोक्तिव्याजवाराहक्षेत्रगङ्गासमीपगः ।
पुनस्तदाहुतिव्याजत्वरितप्राप्तगोकुलः ॥ १८॥

कालिन्दीसङ्गमोत्सुक्यतदीयविरहाक्षमः ।
नित्यं श्रीगोकुलस्थानयमुनारसभोगकृत् ॥ १९॥

आनन्दकन्दसन्दोहश‍ृङ्गाररसमूर्त्तिमान् ।
सर्वेन्द्रियसुखासाद्यरसरूपफलात्मकः ॥ २०॥

मुखनिक्षिप्तताम्बूलचर्वितारुणसद्द्विजः ।
पक्वबिम्बाधरोऽनन्यभक्तदत्ताधरामृतः ॥ २१॥

सुमुखः सुन्दरग्रीवः सुकपोलः सुनासिकः ।
सुकर्णयुगविन्यस्तसुवर्णमणिकुण्डलः ॥ २२॥

तिलकातिलसद्भाली राजीवदललोचनः ।
स्निग्धनीलालकवृतः सुन्दरभ्रूयुगान्वितः ॥ २३॥

शुभलक्षणसर्वाङ्गसर्वावयवसौष्ठवः ।
सम्फुल्लपद्मवक्त्रश्रीदर्शनाकृष्टभक्तहृत् ॥ २४॥

सुस्निग्धमधुरालापो वचनामृतपोषकः ।
महाकारुणिकाधीशः कटाक्षाकृष्टमानसः ॥ २५॥

चरणप्रणताशेषलोकशरणदाग्रणीः ।
त्रैलौक्याभरणीभूतः संसारतरणाश्रयः ॥ २६॥

लक्ष्मीविलासनिलयस्तातपादाब्जसेवकः ।
गिरिधारिपदाम्भोजसञ्चारिभ्रमरायितः ॥ २७॥

हरिगानप्रियो दानशीलः सन्मानकारकः ।
नित्योत्सवमनाः प्रीतो वनितानयनोत्सवः ॥ २८॥

निजजन्मोत्सवकरः स्वजनाहृतमङ्गलः ।
द्विजभोजनसुप्रीतो व्रजमङ्गलदायकः ॥ २९॥

ऋषिपूजादिपूर्वोक्तमङ्गलाचारकारकः ।
सुवासिनीसुमुक्ताक्तपात्रनीराजनाञ्चितः ॥ ३०॥

नारायणकलोत्पन्नरत्नाभरणभूषितः ।
तत्कुलस्त्र्यञ्जलिक्षिप्तहेमपुष्पप्रपूजितः ॥ ३१॥

निजालयकृतानेकगीतवाद्यमहोत्सवः ।
सुगन्धिकुङ्कमालेपकारिताशेषमङ्गलः ॥ ३२॥

महानुभावः परमो भव्यमूर्तिर्महाद्युतिः ।
शुभस्मृतिः शुभध्यानः शुभकृन्नामकीर्तनः ॥ ३३॥

अष्टोत्तरशतश्रीमन्नाममालेयमद्भुता ।
श्रीवल्लभगणेष्वेवं कृष्णरायेण गुम्फिता ॥ ३४॥

धार्या कण्ठगता नित्यं प्रभुसङ्गरसप्रदा ।
विशेषतस्तु जप्येयं तदीयानन्यसेवकैः ॥ ३५॥

इति श्रीकृष्णरायेण विरचितं श्रीनामरत्नमालावलिस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download नामरत्नमालावलिस्तोत्रम् PDF

नामरत्नमालावलिस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App