Misc

नामरत्नमालावलिस्तोत्रम्

Namaratnamalavalistotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नामरत्नमालावलिस्तोत्रम् ||

नत्वा श्रीवल्लभाचार्यान्नौमि श्रीविठ्ठलं प्रभुम् ।
ततः श्रीवल्लभं स्तौमि तन्नामाष्टशतोदितैः ॥ १॥

ऋषिर्निरूपितश्चात्र विठ्ठलेशात्मजासुतः ।
छन्दोऽपि च तथाऽनुष्टुब्देवता गोकुलेश्वरः ॥ २॥

महाकारुणिकाधीशो बीजं चात्र निरूप्यते ।
विनियोगो भक्तियोगे सिद्धिः स्वप्रभुसङ्गमः ॥ ३॥

श्रीवल्लभार्यरूपः श्रीमद्विठ्ठलनन्दनः ।
श्रीवल्लभः सदानन्दः सच्चिदानन्दविग्रहः ॥ ४॥

रुक्यिणीनन्दनः श्रीमान् पार्वतीप्राणवल्लभः ।
सर्वसद्गुणसम्पन्नः पुत्रविठ्ठलराययुक् ॥ ५॥

पौत्रगोवर्द्धनेशाढ्यस्तदतिप्रीतिकारकः ।
संलालितव्रजपतिर्व्रजाधीशेक्षणोत्सुकः ॥ ६॥

पुत्रपौत्रप्रपौत्रदिसमस्तकुलमोदकः ।
भूयो निजकुलाधारः सर्वस्वकुलपोषकः ॥ ७॥

निजाश्रिताखिलज्ञातिप्रीतिपूर्वकपालकः ।
याचनोचितसम्प्राप्तप्राणिमात्रप्रपोषकः ॥ ८॥

सर्वाधारो महोदारः सदानन्दप्रवाहवान् ।
सम्प्राप्तपण्डितव्रातमानपूर्वकदानकृत् ॥ ९॥

गोकुलावासकर्ता च भूयो गोवर्द्धने स्थितः ।
गोस्वामी गोकुलाधीशो गोप्रियो गोकुलेश्वरः ॥ १०॥

गोकुलानन्दकर्ता च गोकुलाधिकभूषणम् ।
गोवल्लभो गोकुलेशो गोकुलप्रीतिकारकः ॥ ११॥

आचार्यकृतसिद्धान्तग्रन्धव्याख्यानकारकः ।
पितामहपदासक्तः पितृपादाब्जभक्तिमान् ॥ १२॥

पितामहस्वरूपत्वज्ञापकैकस्वनामधृक् ।
पितृपूर्णकरूपत्वख्यापकात्मस्थषड्गुणः ॥ १३॥

अतिमानुषकर्मादिकृतिः श्रीकृष्णरूपधृक् ।
धर्मग्लानिकृताधर्मनाशनार्थावतारवान् ॥ १४॥

पाषण्डिदण्डिसम्प्रोक्तप्रचण्डाधर्मखण्डनः ।
स्वधर्मस्थापकोऽखण्डधरामण्डलमण्डनम् ॥ १५॥

योऽतिकोपितपृध्वीशाकारितस्तत्समीपगः ।
उल्लङ्घिततदीयाज्ञः सत्यसन्धो व्रजे स्थितः ॥ १६॥

आबालवृद्धतुलसीमालातिलकधारकः ।
कालिन्दीपतिरीशस्तद्विरहानुभवप्रदः ॥ १७॥

क्ष्मेशोक्तिव्याजवाराहक्षेत्रगङ्गासमीपगः ।
पुनस्तदाहुतिव्याजत्वरितप्राप्तगोकुलः ॥ १८॥

कालिन्दीसङ्गमोत्सुक्यतदीयविरहाक्षमः ।
नित्यं श्रीगोकुलस्थानयमुनारसभोगकृत् ॥ १९॥

आनन्दकन्दसन्दोहश‍ृङ्गाररसमूर्त्तिमान् ।
सर्वेन्द्रियसुखासाद्यरसरूपफलात्मकः ॥ २०॥

मुखनिक्षिप्तताम्बूलचर्वितारुणसद्द्विजः ।
पक्वबिम्बाधरोऽनन्यभक्तदत्ताधरामृतः ॥ २१॥

सुमुखः सुन्दरग्रीवः सुकपोलः सुनासिकः ।
सुकर्णयुगविन्यस्तसुवर्णमणिकुण्डलः ॥ २२॥

तिलकातिलसद्भाली राजीवदललोचनः ।
स्निग्धनीलालकवृतः सुन्दरभ्रूयुगान्वितः ॥ २३॥

शुभलक्षणसर्वाङ्गसर्वावयवसौष्ठवः ।
सम्फुल्लपद्मवक्त्रश्रीदर्शनाकृष्टभक्तहृत् ॥ २४॥

सुस्निग्धमधुरालापो वचनामृतपोषकः ।
महाकारुणिकाधीशः कटाक्षाकृष्टमानसः ॥ २५॥

चरणप्रणताशेषलोकशरणदाग्रणीः ।
त्रैलौक्याभरणीभूतः संसारतरणाश्रयः ॥ २६॥

लक्ष्मीविलासनिलयस्तातपादाब्जसेवकः ।
गिरिधारिपदाम्भोजसञ्चारिभ्रमरायितः ॥ २७॥

हरिगानप्रियो दानशीलः सन्मानकारकः ।
नित्योत्सवमनाः प्रीतो वनितानयनोत्सवः ॥ २८॥

निजजन्मोत्सवकरः स्वजनाहृतमङ्गलः ।
द्विजभोजनसुप्रीतो व्रजमङ्गलदायकः ॥ २९॥

ऋषिपूजादिपूर्वोक्तमङ्गलाचारकारकः ।
सुवासिनीसुमुक्ताक्तपात्रनीराजनाञ्चितः ॥ ३०॥

नारायणकलोत्पन्नरत्नाभरणभूषितः ।
तत्कुलस्त्र्यञ्जलिक्षिप्तहेमपुष्पप्रपूजितः ॥ ३१॥

निजालयकृतानेकगीतवाद्यमहोत्सवः ।
सुगन्धिकुङ्कमालेपकारिताशेषमङ्गलः ॥ ३२॥

महानुभावः परमो भव्यमूर्तिर्महाद्युतिः ।
शुभस्मृतिः शुभध्यानः शुभकृन्नामकीर्तनः ॥ ३३॥

अष्टोत्तरशतश्रीमन्नाममालेयमद्भुता ।
श्रीवल्लभगणेष्वेवं कृष्णरायेण गुम्फिता ॥ ३४॥

धार्या कण्ठगता नित्यं प्रभुसङ्गरसप्रदा ।
विशेषतस्तु जप्येयं तदीयानन्यसेवकैः ॥ ३५॥

इति श्रीकृष्णरायेण विरचितं श्रीनामरत्नमालावलिस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download नामरत्नमालावलिस्तोत्रम् PDF

नामरत्नमालावलिस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App