श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः PDF संस्कृत
Download PDF of Nandikeshapancharatnamalikastuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः संस्कृत Lyrics
|| श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः ||
नमज्जनाखिलाशुभाशुशुक्षणिं नगस्थितं
नगेन्द्रजापतिप्रियं नराशभङ्गविक्रमम् ।
नितान्तमीशसन्निधौ च भक्तवर्गसन्नुतं
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ १॥
दिगीश्वरार्चिताङ्घ्रि पङ्कजातमद्भुताकृतिं
नितान्तशम्भुनर्तनात्तमद्दलं वृषाननम् ।
दिवाकरक्षपेशवह्नि लोचनत्रयोज्ज्वलं
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ २॥
पुरा हि जातु रक्षसामधीश्वरं स्वमाननं
हसन्तमीक्ष्य कोपतः शशाप यो वृषेश्वरः ।
तथैव विष्णुवाहनः प्रशिक्षितश्च लीलया
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ३॥
मुधा परो मुकुन्द एव सर्वदेवतास्विति
प्रजल्पयन्तमग्रतो मुनिं पराशरात्मजम् ।
क्रुधा स्वकीयहुङ्कृतेरशिक्षयच्च योगिराट्
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ४॥
मुहुर्मुहुर्जपन्वरं परं च रौद्रमादरात्
अवाप यो महेश्वराश्च नित्यनिर्विकल्पताम् ।
सुकेतुतां प्रवाहतां गणेशतां च साम्यतां
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ५॥
सुपञ्चरत्नमालिकामिमां पठन्ति ये नराः
सुपुत्रमित्रभृत्यधान्य सत्कलत्रसम्पदः ।
अरोगतां च योगसिद्धिमप्यहो यदीप्सितं
समृद्धिमप्ययाचितं भजन्ति वाग्विलासताम् ॥ ६॥
इति श्रीशङ्करभगवत्पादविरचिता श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः
READ
श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
