Misc

श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः

Nandikeshapancharatnamalikastuti Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः ||

नमज्जनाखिलाशुभाशुशुक्षणिं नगस्थितं
नगेन्द्रजापतिप्रियं नराशभङ्गविक्रमम् ।
नितान्तमीशसन्निधौ च भक्तवर्गसन्नुतं
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ १॥

दिगीश्वरार्चिताङ्घ्रि पङ्कजातमद्भुताकृतिं
नितान्तशम्भुनर्तनात्तमद्दलं वृषाननम् ।
दिवाकरक्षपेशवह्नि लोचनत्रयोज्ज्वलं
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ २॥

पुरा हि जातु रक्षसामधीश्वरं स्वमाननं
हसन्तमीक्ष्य कोपतः शशाप यो वृषेश्वरः ।
तथैव विष्णुवाहनः प्रशिक्षितश्च लीलया
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ३॥

मुधा परो मुकुन्द एव सर्वदेवतास्विति
प्रजल्पयन्तमग्रतो मुनिं पराशरात्मजम् ।
क्रुधा स्वकीयहुङ्कृतेरशिक्षयच्च योगिराट्
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ४॥

मुहुर्मुहुर्जपन्वरं परं च रौद्रमादरात्
अवाप यो महेश्वराश्च नित्यनिर्विकल्पताम् ।
सुकेतुतां प्रवाहतां गणेशतां च साम्यतां
नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ५॥

सुपञ्चरत्नमालिकामिमां पठन्ति ये नराः
सुपुत्रमित्रभृत्यधान्य सत्कलत्रसम्पदः ।
अरोगतां च योगसिद्धिमप्यहो यदीप्सितं
समृद्धिमप्ययाचितं भजन्ति वाग्विलासताम् ॥ ६॥

इति श्रीशङ्करभगवत्पादविरचिता श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः PDF

श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App