Misc

श्रीनरनारायणदेवप्रार्थनास्तोत्रम्

Naranarayanadevaprarthanastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनरनारायणदेवप्रार्थनास्तोत्रम् ||

अवतीर्य निजाक्षरात्परादिह मूर्त्यां बदरीवने स्थितः ।
भुवि भारतजीवशर्मणे, नरनारायणदेव ! पाहि माम् ॥ १॥

यदुपर्यभवत्कृपा तव, स नरो दृष्टुमिहार्हर्तीक्षणम् ।
न परः सुरसत्तमोन्यथा, नरनारायणदेव ! पाहि माम् ॥ २॥

प्रथितं च बृहदव्रतं त्वया, जनतायानिजधामलब्धये ।
अवबोधनमुत्तमं भुवि, नरनारायणदेव ! पाहि माम् ॥ ३॥

जगतो जननं हि पालनं, प्रलयं चापि करोषि नित्यदा ।
रजसा तमसा च सत्त्वतो, नरनारायणदेव ! पाहि माम् ॥ ४॥

ऋषिरूपधरं तपश्चरं, ह्यवमन्येत कदापि कश्चन ।
स भवेत्सततं च नारकी, नरनारायणदेव ! पाहि माम् ॥ ५॥

तवर्मूर्तिरियं सुखाप्तये जनतायाः किल तापशान्तये ।
मरणस्य जयाय नित्यदा, नरनारायणदेव ! पाहि माम् ॥ ६॥

जगदन्यतनुर्स्तथावितुं, धरसि त्वं च युगे युगेद्य वै ।
हरिकृष्णतनुस्त्वया धृता, नरनारायणदेव ! पाहि मां ७॥

विधिशम्भुमुखामरव्रजश्चरणौ ते सततं समर्चति ।
परमादरतश्च चिन्तति, नरनारायणदेव ! पाहि माम् ॥ ८॥

इति श्रीनरनारायणदेवप्रार्थनास्तोत्रम्ं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीनरनारायणदेवप्रार्थनास्तोत्रम् PDF

श्रीनरनारायणदेवप्रार्थनास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App