Misc

श्रीनरनारायणदेवप्रार्थनास्तोत्रम्

Naranarayanadevaprarthanastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनरनारायणदेवप्रार्थनास्तोत्रम् ||

अवतीर्य निजाक्षरात्परादिह मूर्त्यां बदरीवने स्थितः ।
भुवि भारतजीवशर्मणे, नरनारायणदेव ! पाहि माम् ॥ १॥

यदुपर्यभवत्कृपा तव, स नरो दृष्टुमिहार्हर्तीक्षणम् ।
न परः सुरसत्तमोन्यथा, नरनारायणदेव ! पाहि माम् ॥ २॥

प्रथितं च बृहदव्रतं त्वया, जनतायानिजधामलब्धये ।
अवबोधनमुत्तमं भुवि, नरनारायणदेव ! पाहि माम् ॥ ३॥

जगतो जननं हि पालनं, प्रलयं चापि करोषि नित्यदा ।
रजसा तमसा च सत्त्वतो, नरनारायणदेव ! पाहि माम् ॥ ४॥

ऋषिरूपधरं तपश्चरं, ह्यवमन्येत कदापि कश्चन ।
स भवेत्सततं च नारकी, नरनारायणदेव ! पाहि माम् ॥ ५॥

तवर्मूर्तिरियं सुखाप्तये जनतायाः किल तापशान्तये ।
मरणस्य जयाय नित्यदा, नरनारायणदेव ! पाहि माम् ॥ ६॥

जगदन्यतनुर्स्तथावितुं, धरसि त्वं च युगे युगेद्य वै ।
हरिकृष्णतनुस्त्वया धृता, नरनारायणदेव ! पाहि मां ७॥

विधिशम्भुमुखामरव्रजश्चरणौ ते सततं समर्चति ।
परमादरतश्च चिन्तति, नरनारायणदेव ! पाहि माम् ॥ ८॥

इति श्रीनरनारायणदेवप्रार्थनास्तोत्रम्ं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीनरनारायणदेवप्रार्थनास्तोत्रम् PDF

श्रीनरनारायणदेवप्रार्थनास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App