|| नतोपदेशस्तोत्रम् ||
मनः समाधौ परमार्थरङ्गं विधाय निष्पन्दमनुत्तरङ्गम् ।
बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ १॥
पाश्यावशेनेव महाविहङ्गं वल्गाबलेनेव महातुरङ्गम् ।
निरुध्य योगेन मनःप्लवङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ २॥
मन्त्रौषधादिक्रियया भुजङ्गं यथा तथा वागुरया कुरङ्गम् ।
मनस्तदायम्य धियास्तसङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ३॥
भित्वालिकं सुभ्रुकुटीविभङ्गं यस्याग्निरुद्यद्रभसादनङ्गम् ।
ददाह तं मोहतमःपतङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ४॥
वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् ।
विलोचनं चाग्निशिखाविषङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ५॥
भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलङ्करणम् ।
व्रजत क्ष्माधरदरीशरणं शरणं तुषारकिरणाभरणम् ॥ ६॥
कृताघस्मरनिराकरणं कटुकालकूटकबलीकरणम् ।
भजत प्रपन्नजनताशरणं शरणं तुषारकिरणाभरणम् ॥ ७॥
मरुमेदिनीरचितसञ्चरणं त्रिदशेन्द्रशेखरनतचरणम् ।
व्रजत त्रिदुःखहरस्मरणं शरणं तुषारकिरणाभरणम् ॥ ८॥
प्रणतजनजितजरामरणं रचयन्तमाप्तभवनिस्सरणम् ।
व्रजताहितत्रिपुरसंहरणं शरणं तुषारकिरणाभरणम् ॥ ९॥
अवधूतमोहतिमिरावरणं करिकृत्तकल्पितपरावरणम् ।
व्रजत प्रकल्पितपुरेशरणं शरणं तुषारकिरणाभरणम् ॥ १०॥
तरुणतमालमलीमसतालं ज्वलनशिखापटलोज्ज्वलभालम् ।
शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं हतकल्मषजालम् ॥ ११॥
नरमुखकल्पितशेखरमालं नतजनजृम्भितमोहतमालम् ।
नयनशिखाशतशातितकालं श्रयत विभुं हतकल्मषजालम् ॥ १२॥
विषमविषाग्निशिखाविकरालं फणिपतिहारमतीव विशालम् ।
गलभुविबिभ्रद्गरलकरालं श्रयत विभुं हतकल्मषजालम् ॥ १३॥
विदलयितुं यमृते भवनालं त्रिभुवनसीमनि कश्चन नालम् ।
तममलमानसवासमरालं श्रयत विभुं हतकल्मषजालम् ॥ १४॥
कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् ।
भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ १५॥
अधिकस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् ।
ध्वजधामविराजिमहाधवलं भजत प्रभुमद्रिसुताधवलम् ॥ १६॥
प्रभया परिभूतदलद्धवलं गलमङ्गदरत्नशिखाशबलम् ।
दधतं विषक्लृप्तमहाकबलं भजत प्रभुमद्रिसुताधवलम् ॥ १७॥
शिखरं द्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् ।
दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ १८॥
अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाघमलम् ।
ददतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ १९॥
दधतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् ।
भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ २०॥
इति नतोपदेशस्तोत्रं समाप्तम् ॥
Found a Mistake or Error? Report it Now