|| नवदुर्गास्तुतिः ||
शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री ।
विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥
शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् ।
चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥
तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् ।
चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥
सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् ।
हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥
पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् ।
स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥ ५॥
कात्यायनीमहादेवीं शार्दूलोपरिसंस्थिताम् ।
महाखड्गधरां वन्दे चारुनेत्रत्रयान्विताम् ॥ ६॥
कृष्णां दिगम्बरीं वन्दे गर्दभोपरिसंस्थिताम् ।
चतुर्भुजां त्रिनेत्रां च कालरात्रीं भयङ्करीम् ॥ ७॥
वृषारूढां महागौरीं त्रिशूलाभयधारिणीम् ।
कटाक्षविशिखोपेतां वन्दे कल्याणकारिणीम् ॥ ८॥
सिद्धिदात्रीं त्रिनेत्रां च पद्मस्थां किरीटोज्ज्वलाम् ।
शङ्खचक्रगदापद्मधरां वन्दे यशस्विनीम् ॥ ९॥
इति नन्दप्रदीप्तकुमारविरचिता नवदुर्गास्तुतिः समाप्ता ।
Read in More Languages:- sanskritश्री नवदुर्गास्वरूपानुसन्धानस्तुतिः
- sanskritदुर्गाचन्द्रकलास्तुतिः
- hindiश्री दुर्गा नक्षत्र मालिका स्तुति
- englishShri Durga Maa Stuti
- hindiश्री दुर्गा माता स्तुति
- teluguశ్రీ దుర్గా నక్షత్ర మాలికా స్తుతి
- kannadaಶ್ರೀ ದುರ್ಗಾ ನಕ್ಷತ್ರ ಮಾಲಿಕಾ ಸ್ತುತಿ
- gujaratiશ્રી દુર્ગા નક્ષત્ર માલિકા સ્તુતિ
- sanskritश्री दुर्गा नक्षत्र मालिका स्तुति
- sanskritश्री दुर्गा नक्षत्र मालिका स्तुति
- punjabiਸ਼੍ਰੀ ਦੁਰ੍ਗਾ ਨਕ੍ਸ਼ਤ੍ਰ ਮਾਲਿਕਾ ਸ੍ਤੁਤਿ
- odiaଶ୍ରୀ ଦୁର୍ଗା ନକ୍ଷତ୍ର ମାଲିକା ସ୍ତୁତି
- bengaliশ্রী দুর্গা নক্ষত্র মালিকা স্তুতি
Found a Mistake or Error? Report it Now